________________
अनेकान्तजयपताकाख्यं प्रकरणम्
( मूलम् )
द्रवानिवृत्तेः तथाहि - मुक्तोऽपि न मुक्त एव, अनेकान्तवादहाने:, अपि स्वमुक्तोऽपि' इत्यादि तदप्ययुक्तम्, न मुक्त एवेत्यवधारण५ निषेधेनैव अनेकान्तवादसाफल्यात् अमुक्तोऽपीति 'विधानासिद्धेः । आह-कथं न मुक्त एवेत्यनेकान्तवाद साफल्यम् ? । उच्यते - स्यान्मुक्त इति वाक्यार्थापत्तेः । वाक्यार्थापत्तिश्च खमुक्तत्वेनैव मुक्तत्वात्, मुक्तान्तरमुक्तत्वेन तदयोगात्, खपरभावाभावो भयाधीनात्मकत्वात् सर्ववस्तूनामिति निर्णीतमेतत् ॥
५०
२२८
[ 48:
अथवा सत्त्व- चैतन्य - सर्वज्ञत्वा ऽसङ्ख्यातप्रदेशत्वादिभ्यो मुक्तामुक्तसामान्यादमुक्तपर्यायेभ्यः कथञ्चिदव्यतिरिक्तत्वात् सकलकर्मक्षयाभिव्यक्तमुक्तपर्यायस्य स्यान्मुक्तः स्यादमुक्त इति न कश्चिद्
( खो० व्या० ) मोक्षसीविहित्यम्, अनेकान्तवादोपद्रवानिवृत्तेः तथाहि - मुक्तोऽपि न ११ मुक्त एव, अनेकान्तवादहाने, अपि त्वमुक्तोऽपीत्यादि यच्वोक्तं तदव्ययुक्तम् । कथम् ? न मुक्त एवेति एवमवधारणनिषेधेनैव । किमित्याहअनेकान्तवाद साफल्यात् हेतोः अमुक्तोऽपीति - एवं विधानासिद्धेः । आह-कथं न मुक्त एवेति - एवमनेकान्तवादसाफल्यम् ? । एतदाशङ्कय आह- उच्यते - स्यान्मुक्तः - कथञ्चिन्मुक्त इति एवं बाक्यार्थापत्तेः कारणात् । २० वाक्यार्थापत्तिश्च अर्थवृत्त्या स्वमुक्तत्वेनैव मुक्तत्वात्, मुक्तान्तरमुक्तत्वेन तदयोगात् - मुक्तत्वायोगात् । अयोगश्च खपरभावाभावो भयाधीनात्मकत्वात् स्वपरयोर्भावाभावौ तावेवोभयम्, एतदधीनात्मकत्वात् सर्ववस्तूनामिति निर्णीतमेतदधस्तात् सदसद्रूपाधिकारे' ॥
प्रकारान्तराभिधित्सयाऽऽह - अधवेत्यादि । अथवैवं स्यान्मुक्तः स्यादमुक्त इति २५ कथमित्याह - सत्वं च चैतन्यं च सर्वज्ञत्वं च असङ्ख्यात प्रदेशत्वादयश्चेति द्वन्द्वः, तेभ्यो मुक्तामुक्तसामान्यात् कारणात् अमुक्त पर्यायेभ्यः सत्त्वादिभ्यः कथञ्चित् केनचित् प्रकारेण अव्यतिरिक्तत्वात् हेतोः । कस्येत्याह-सकलकर्मक्षयाभिव्यक्तश्चासौ मुक्तपर्यायश्चेति विग्रहस्तस्य । स्यान्मुक्तः - कथञ्चिन्मुक्तः मुक्तत्वपर्यायापेक्षयैव, स्यादमुक्तः सत्त्वादिपर्यायापेक्षया इति न कश्चिद्
१ ' विधान सिद्धेः' इति ग-पाठः । २ 'परभावोभया०' इति ङ-पाठः । ३ प्रथमे खण्डे ।