________________
अधिकारः ] खोपज्ञव्याख्यामुनि चन्द्रीयविवरणयुतम्
( मूलम् )
निष्फलारम्भाङ्कुराजनकबीजादीनां फलवच्छ्रुतिप्रवृत्तेः, निश्चयतस्तु तावत्सामय्यन्तर्गतस्य तथाऽपगमभावात् न न तथास्वभावत्वमपि तदभावे तदपगमानुपपत्तेः, अपगमे वाऽतिप्रसङ्गात् सर्वेषां ५ तदपगमापत्तेः; असमञ्जसत्वमिति सूक्ष्मधिया भावनीयम् ॥
"
एतेन 'सर्वशक्तिविरोधासिद्धेः' इत्यादि यावत् 'तपःकर्मक्षयवादोऽप्यबुधजनमनोहर एवेत्यपकर्णयितव्यः" इत्येतद् व्युदस्तं प्रत्येतव्यम् उक्तवत् सर्वशक्तिविरोधोपपत्तेः, तथाविधकुशलपरिणामस्य तत्प्रच्यावकत्वादिति ॥
२२७
૩.
यञ्चोक्तम्- 'न चास्मिन् सत्यपि मोक्षसौविहित्यम्, अनेकान्तोप( खो० व्या० ) उद्यमिनां निष्फलारम्भ उद्यमिनिष्फलारंम्भतश्च अङ्कराजनका बीजादयश्चेति समासः, एतेषां फलवच्छ्रुतिप्रवृत्तेः व्यवहारतस्तथाविधफलाभावेऽपीति भावः । निश्चयतस्तु - निश्चयेन पुनः तावती चासौ सामग्री च तावत्सामग्री चित्रतैपोरूपा १५ तस्या अन्तर्गतं तावत्सामग्रयन्तर्गतं तस्य कर्मण इति प्रक्रमः, तथा - विशिष्टफलादानेन अपगमभावात् कारणात् न न तथास्वभावत्वम् - अभ्युपक्रमणस्वभावत्वमपि किन्त्वस्त्येव तदभावे - तथाखभावत्वाभावे तदपगमानुपपत्तेः - कर्मापगमानुपपत्तेः, अपगमे वा तत्स्वभावस्य कर्मणः अतिप्रसङ्गात् । ततः किमित्याह - सर्वेषां - प्राणिनां तदपगमापत्तेः- कर्मापगमापत्तेः, अतत्स्व - २० भावत्वाविशेषादित्यभिप्रायः । एवमसमञ्जसत्वमित्येतत् सूक्ष्मधिया भावनीयम् ॥
एतेनेत्यादि । एतेन - अनन्तरोदितेन वस्तुना सर्वशक्तिविरोधा सिद्धेरित्यादि मूलपूर्वपक्षोक्तं यावत् तपःकर्मक्षयवादोऽप्यबुधजनमनोहर एवेत्यपकर्णयितव्य इत्येतत् सर्वं व्युदस्तं प्रत्येतव्यम् । कथमित्याह-उक्तवत् - २५ यथोक्तं तथा सर्वशक्तिविरोधोपपत्तेः । तथाविधकुशलपरिणामस्य उक्तलक्षणतपोरूपस्य तत्प्रच्यावकत्वात्- सर्वशक्तिप्रच्यावकत्वात् इति ॥
यच्चोक्तमित्यादि । यच्चोक्तं पूर्वपक्षे एव न चास्मिन् - अनेकान्तवादे सत्यपि
१ 'वत्सूति०' इति ग - पाठः । २ ' तदभावेन तद०' इति ग-पाठः । ३ ' इत्यादिवत् तपः' इति क- पाठः । ४ द्रष्टव्यं प्रथमस्य खण्डस्य ३०तमं पृष्टं ३१तमं च । ५ आये खण्डे ३१ तमे पृष्ठे | ८ द्रष्टव्यमाद्यस्य खण्डस्य
६ 'रम्भश्च अङ्कुरा०' इति ङ-पाठः । ३० तमं पृष्ठं ३१तमं च । ९ प्रथमे खण्डे
७ 'तपोऽतस्या' कपाठः । ३१ तमे पृष्ठे ।