________________
२२६ अनेकान्तजयपताकाख्यं प्रकरणम्
[षष्ठः (मूलम्) काल-खभावादयः। किं, पुनरोत्थम्भूतभावावगमनिमित्तम् ? न परमगुरुवचनतोऽन्यत् । कथमारहशां तदवसाय:? तथाविधक्लिष्ट५ कर्मविगमात्, तस्यापि च तथाविधकालखभावादिहेतुत्वात् परमगुरुवचनप्रामाण्यात्, अन्यथैवंविधव्यवहारोच्छेदापत्तेः, सर्वत्र संशयानिवृत्तेरिति। एवं कुशलरूपपरिणामरूपाच तपसः तथाखभावत्वेन न न युक्तः सकलकर्मविगमः। न च तस्येत्थमफलता, व्यवहारतस्तथाप्राप्तफलानामपि योग्यतया लोके सफलतासिद्धेः, उद्यमि
(स्वो० व्या०) क इति वाच्यम्-को हेतुरिति ? । एतदाशङ्कयाह-तथाभव्यत्वसहकारिण:-अनादिपारिणामिकभावसहकारिणः काल-स्वभावादयः। उक्तं च वादिमुख्येन
"कालो सहाव णियई पुवकयं पुरिसकारणेगन्ता ।
मिच्छत्तं ते चेव य समासओ होन्ति सम्मत्तं ॥५ आह-किं पुनरत्र-व्यतिकरे इत्थम्भूतभावाधिगमनिमित्तं यदुत तथाभव्यत्वसहकारिणः कालखभावादयो हेतुरिति ? । एतदाशङ्कयाह-न परमगुरुवचनतोऽन्यत् निमित्तमिति । आह-कथमर्वाग्दशां-छद्मस्थानां तदवसाय:-परमगुरुवचनावसायः ? । एतदाशङ्याह-तथाविधक्लिष्टकर्मविगमात् तदवसाय इति । २०तस्यापि च-क्लिष्टकर्मविगमस्य तथाविधकालखभावादिहेतुत्वात् । तद्धेतुत्वं
च परमगुरुवचनप्रामाण्यात्, सर्वज्ञवचनप्रामाण्यादित्यर्थः । इत्थं चैतदङ्गीकर्त्तव्यमित्याह-अन्यथा एवंविधव्यवहारोच्छेदापत्तो-अतीन्द्रियव्यवहारोच्छेदापत्तेः। आपत्तिश्च सर्वत्र संशयानिवृत्तेरिति । एवं कुशलरूपपरिणाम
रूपाच तपसः किमित्याह-तथाखभावत्वेन-कर्मापनयनस्वभावत्वेन हेतुना २५ न न युक्तः सकलकर्मविगमः, किन्तु युक्त एव। न चेत्यादि । न च तस्यकर्मण इत्थम्-अनेन तपउपक्रमणप्रकारेण अफलता। कुत इत्याह-व्यवहारत इत्यादि । व्यवहारतः-व्यवहारेण तथा-'क्रिययैवाप्राप्तफलानामपि निश्चयता योग्यतया कारणेन लोके सफलतासिद्धेः। निदर्शनमाह-उद्यमीत्यादि । १ 'उद्यमे निष्फला०' इति ग-पाठः। २ सिद्धसेन दिवाकरेण । ३ छाया-कालः स्वभावो नियतिः पूर्वकृतं पुरुषकारणमेकान्तात् ।
मिथ्यात्वं ते चैव च समासतो भवन्ति सम्यक्त्वम् । ४ 'कारणे संत' इति ङ-पाठः। ५ श्रार्या । ६ किथै वा' इति ङ-पाठः।।