________________
२२५
अधिकारः] स्वोपज्ञव्याख्यामुनिचन्द्रीयविवरणयुत्तम्
(मूलम्) न तंदेकरूपं चित्रशक्तिकस्य कर्मणः क्षयायालम्, अन्यतमशक्तितोऽभावात्' इत्यादि तदप्ययुक्तम् , तस्यैकान्तत एकरूपत्वासिद्धेः, चित्रकुशलात्मपरिणामरूपत्वात् तत्तद्वचनादिनिमित्तभेदोपपत्तेः,५
अनशनप्रायश्चित्तादिभेदाभ्युपगमादिति ॥ __ न चास्य कर्मशक्तित एव भावः, तत्क्षयोपशमतः प्रवृत्तेः तत्त्वत
आत्मधर्मत्वात्, आवरणात् तदनभिव्यक्तः, तदपगमादभिव्यक्तिभावादिति । आह-का पुनरस्यावगमहेतुः? परमगुरुवचनश्रवणादिः। तदवाप्तावपि क इति वाच्यम् , तथाभव्यत्वसहकारिणः
(खो० व्या०) सन्तापस्तप इत्यपि त्वन्यदेवेत्येतदाशङ्ख्याह-हन्तैवमपि न तदेकरूपं तपः चित्रशक्तिकस्य कर्मणः-ज्ञानावरणीयादेः क्षयायालम् । कुत इत्याह-अन्यतमशक्तितोऽभावात् तपस इत्यादि, तदप्ययुक्तम् , तस्यतपस एकान्तत एकरूपत्वासिद्धेः। असिद्धिश्च चित्रकुशलात्मपरिणाम-१५ रूपत्वात् तपसः। तच्च तद्वचनादिवत् तन्निमित्तं च, आदि शब्दाद् विनयादिग्रहः, तद्भेदोपपत्तेः अनशनप्रायश्चित्तादिभेदाभ्युपगमात् बाह्याभ्यन्तररूपतया तपस इति । उक्तं च
"अनशनमूनोदरता वृत्तेः सङ्केपणं रसत्यागः । कायक्लेशः संलीनतेति बाह्यं तपः प्रोक्तम् ॥ प्रायश्चित्त-ध्याने वैयावृत्त्य-विनयावथोत्सर्गः ।
खाध्याय इति तपः षट्प्रकारमाभ्यन्तरं भवति ॥" न चेत्यादि । न चास्य-तपसः कर्मशक्तित एव सकाशाद् भावः, तत्क्षयोपशमत:-कर्मक्षयोपशमतः प्रवृत्तेः कारणात् तत्त्वत आत्मधर्मत्वात् तपसः । आत्मधर्मत्वे कथं न सदाभाव इत्याह-आवरणात्-चारित्रमोहनीयलक्षणात् २५ तदनभिव्यक्तः तस्य-तपसोऽनभिव्यक्तेरिति । तदपगमात्-आवरणापगमात् अभिव्यक्तिभावादिति । आह परः-कः पुनरस्य-प्रस्तुतव्यतिकरस्य अवगमहेतु:-परिच्छेदहेतुरिति ? एतदाशङ्कयाह-परमगुरुवचनश्रवणादिः। आदि'शब्दात् समुत्थानादिग्रहः । आह-तदवासावपि-परमगुरुवचनश्रवणाधवाप्तावपि
१ तदैकरूपं' इति क-पाठः। २ तो भावात्' इति क-पाठः। ३ 'श्चात्म.' इति कपाठः। ४ 'श्रवणादि तद.' इति क-पाठः। ५ 'भव्यसह.' इति ग-पाठः। ६-७ आर्या ।
अनेकान्त० २९