________________
अनेकान्तजयपताकाख्यं प्रकरणम्
(मूलम् )
ग्रचिन्तानिरोधलक्षणं तथासूक्ष्मप्रवृत्तिभावतः प्रचुरकर्मक्षयहेतुः ध्यानमेव प्रधानसिद्ध्यङ्गभूतं श्रेयः । एतद्धि निरुपमं कर्मामय५ भैषजं विख्यातं विपश्चितां फलं सचेष्टितस्य प्रकर्ष उपादेयानां निराबाधं प्रकृत्या एकान्तेनापरोपतापि प्रशमसुखसङ्गतं समुल्लसद्यथावस्थितज्योतिरित्यस्मात् तत्प्रकर्षमासादयतोऽक्षेपेण केवलं प्रकृष्टाच मोक्ष इति ॥
एतेन 'नरकादिकायसन्तापवत् तत्त्वतस्तपस्त्वायोगात् इत्यादि १० यावदतपस्विनश्चैवं योगिनः स्युः कायसन्तापाभावात् न चैतदपि न्याय्यम्, अभ्युपगमादिविरोधादेव” इति निराकृतमवगन्तव्यम्, अनभ्युपगमेन भावतो निरवकाशत्वादिति । यथोक्तम्- 'अथ न काय सन्तापस्तप इति, अपि त्वन्यदेव' इत्येतदाशङ्क्याह – 'हन्तैवमपि ( स्वो० व्या० )
१५ निरतिचारसामायिकगर्भम् । एतदभावे तत्त्वतोऽधिकृतध्यानानुपपत्तेः एकाग्रचिन्तानिरोधलक्षणं अप्रमादातिशययोगात् तथासूक्ष्मप्रवृत्तिभावतः । एतदेव विशेष्यते प्रचुरकर्मक्षर्यहेतुः असङ्गानुष्ठानान्तर्गतत्वेन ध्यानमेव प्रधानसिद्ध्यङ्गभूतं श्रेय इति । तद्धि ध्यानं निरुपमं कर्मामय भैषजम् । एतच विख्यातं विपश्चितां - पण्डितानां निरुपमकर्मामय भैषजत्वेन फलं सच्चेष्टितस्या२० नेकभवाभ्यास प्रकर्ष उपादेयानां वास्तवं न्यायमधिकृत्य निराबाधं प्रकृत्या सर्वोत्सुक्याभावेन एकान्तेनापरोपतापि, सर्वाश्रवनिरोधात् प्रशमसुखसङ्गतं रागादिप्रहाणेन समुल्लसतः यथावस्थितज्योतिः प्रतिसमयं मोहनिवृत्तेः । इति - एवमस्मात् - ध्यानात् तत्प्रकर्ष - ध्यानप्रकर्षमासादयतः सतः अक्षेपेण केवलं प्रकृष्टाच्च अस्मादेव शैलेश्यवस्थासङ्गात् मोक्ष इति ॥
एतेनेत्यादि । एतेन - अनन्तरोदितेन नारकादिकायसन्तापवत् तत्त्वतः तपस्त्वायोगादित्यादि पूर्वपक्षोदितं यावदतपखिनचैवं योगिनः स्युः कायसन्तापाभावात्, न चैतदपि न्याय्यमभ्युपगमादिविरोधादेवेति एतन्निराकृतमवगन्तव्यम् । कुत इत्याह- अनभ्युपगमेन भावतः - परमार्थेन निरवकाशत्वादिति । यच्चोक्तं मूलपूर्वपक्ष एवं - 'अथ न काय
२२४
२५
[ षष्ठः
१ 'कर्मामयभेषजं ' इति ग-पाठः । २ द्रष्टव्यं प्रथमस्य खण्डस्य २९तमं पृष्ठे ३०तमं च । ३ 'गमेनाभावतो' इति ग-पाठः । ४ प्रथमे खण्डे ३० तमे पृष्ठे । ५ प्रथमे खण्डे ३० तमे पृष्ठे ।
इति
क-पाठः ।
५ ' हेतु असङ्गा०' इति ङ-पाठः । ७ 'भावे न एका०' खण्डस्य २९ पृष्ठम् । ९ आये खण्डे ३० तमे पृष्ठ |
८ द्रष्टव्यमाद्यस्य