________________
अधिकारः]
स्वोपज्ञव्याख्यामुनिचन्द्रीयविवरणयुतम्
२२३
१०
च भावनापूर्वकत्वात् तदनिष्पत्तौ ध्यानासिद्धेः। न च सर्वथा योगनिरोधलक्षणलेश्यातीतानुपमशुक्लध्यानव्यतिरेकेण मोक्षः, क्रियाभावे तन्निबन्धनकानुपरतेः, अन्यथा न तस्या मनागपि५ कर्महेतुत्वम्, न चैतद् दृष्टेष्टाविरोधि तथालोकाभ्युपगमक्षतेरित्ये. तदङ्गत्वेन मोक्षविद्यासाधनपूर्वक्रियारूपैवानित्यत्वादिभावना, तथाविधपरिणामजनकत्वेन क्लिष्टानुष्ठान निवृत्तिहेतुत्वात्,विदिततत्त्वानां तु न किश्चिदनया तदनुवादरूपया, निरतिचारसामायिकगर्भमेका
(खो० व्या०) ततः किमित्याह-तस्य च- ध्यानस्य भावनापूर्वकत्वात् । भावनापूर्वकत्वं च तदनिष्पत्ती-भावनाऽनिष्पत्तौ ध्यानासिद्धः कारणात् । न चेत्यादि । न च सर्वथा-एकान्तेन योगनिरोधलक्षणं च तत् लेश्यातीतपरमशुक्लध्यानं चेति विग्रहः, तद्व्यतिरेकेण मोक्षो न च । कथमित्याह-क्रियाभावे सति तनिवन्धनकानुपरतेः-क्रियानिबन्धनकर्मानुपरतेः । इत्थं चैतदङ्गीकर्तव्य-१५ मित्याह-अन्यथा न तस्याः-क्रियाया मनागपि कर्महेतुत्वम् , तद्भावेऽपि तदभावोपपत्तेः । न चैतत्-अकर्महेतुत्वं दृष्टेष्टाविरोधि, किन्तु विरोध्येव, इह क्रियाफलदर्शनात् सयोगकेवलिनोऽपि ईर्यापथककर्मबन्धाभ्युपगमाच । अत एवाहतथालोकाभ्युपगमक्षतेः। इति-एवमेतदङ्गत्वेन, प्रक्रमादधिकृतध्यानाङ्गत्वेन मोक्षविद्यासाधनपूर्वक्रियारूपैव । 'केत्याह-अनित्यत्वादिभावना १२० 'आदि'शब्दादशरणत्वादिग्रहः । यथोक्तम्
"भावयितव्यमनित्यत्वमशरणत्वं तथैकताऽन्यत्वे । अशुचित्वं संसारः कर्माश्रवसंवरविधिश्च ॥ निर्जरणलोकविस्तरधर्मखाख्याततत्त्वचिन्ताश्च ।
बोधेः सुदुर्लभत्वं च भावना द्वादश विशुद्धाः ॥" - उपयोगं दर्शयति तथाविधेत्यादिना । तथाविधपरिणामजनकत्वेन-शुद्धचित्तपरिणामजनकत्वेन हेतुना किमित्याह-क्लिष्टानुष्ठाननिवृत्तिहेतुत्वात् अनित्यत्वादिभावनाया विदिततत्त्वानां तु-योगिनां सामायिकवतां न किञ्चिदनया-अनित्यत्वादिभावनया। किंदिशिष्टयेत्याह-तदनुवादरूपया। किं तर्हि ? ध्यानमेव प्रधानसिद्ध्यङ्गभूतं श्रेय इति योगः । एतदेव विशेष्यते ३०
१ 'कर्मबन्धानुपरतेः' इति ग-पाठः । २ 'काग्रं चित्तनिरोधः' इति ग-पाठः। ३ 'तानुपमशुक्ल.' इति स्यात् । ४ किमित्याह' इति हु-पाठः । ५-६ आर्या ।