________________
[षष्ठः
२२२
अनेकान्तजयपताकाख्यं प्रकरणम्
(मूलम्) योगानिराकाङ्कत्वादनागतस्य चाकरणमिति, अतः "कृत्लकर्मक्षयान्मोक्षः" इति युक्तियुक्तमेव ।। ५ एतेन यत् परैश्चोद्यते 'भावनाहेयाः क्लेशाः किमत्र कायसन्तापेन व्यधिकरणत्वात्' इतिः(त्यादि) तदपि परिहृतमेव, कायसन्तापस्य तत्त्वतस्तपस्त्वानभ्युपगमात् तस्योक्तवत् कुशलपरिणामरूपत्वात्, तदन]ङ्गत्वेन तु ब्रह्मचर्यभिक्षाटनादिवत् तदभिधानादिति ॥ किश्च भावनाऽपि नस्तपोभेद एव, ध्यानस्य तपोरूपत्वात्, तस्य
(खो० व्या०) राधनात् अत एव सर्वतो निवृत्तेः समतया एवं सद्ध्यानयोगात् ध्यन्तरयोगाप्ल्या निराकाङ्कत्वादिहलोकादौ, न केवलमित्थं प्रागुपात्तकर्मनिर्जरणं अनागतस्य चाकरणमिति, अत:-अस्मात् कारणात् कृत्लकर्मक्षयाद्' भवोप
ग्राहिकर्माण्यधिकृत्य मोक्ष इति युक्तियुक्तमेव-न किश्चिदत्र प्रमाणविरुद्धम् ।। १५ एतेन-अनन्तरोदितेन यत् परैश्चोयते बौद्धः यदुत भावनाहेयाः क्लेशा:-रागादयः किमन्त्र कायसन्तापेन व्यधिकरणत्वादित्यादि तदपि परिहृतमेव । कथमित्याह-कायसन्तापस्य-पराभिमतस्य तत्त्वतः-परमार्थेन तपस्त्वानभ्युपगमात् । तस्येत्यादि तस्य-तपसः उक्तवत्-यथोक्तम् । तथा किमित्याह-कुशलपरिणामरूपत्वात् , तदङ्गत्वेन-कुशलपरिणामाङ्गत्वेन पुन० ब्रह्मचर्यभिक्षाटनादिवदिति निदर्शनं तदभिधानात्-कायसन्तापाभिधानात् कायक्लेशवचनेन इति ॥
अभ्युच्चयमाह किश्वेत्यादिना । किञ्च भावनाऽपि न:-अस्माकं तपोभेद एव । कथं द्वादशभेदमध्ये भाव इत्याह-ध्यानस्य तपोरूपत्वात् । यदि नामैवं
(विवरणम्) २५ (११-१२) ध्यन्तरयोगाप्त्येति । धियः-बुद्धेरन्तरं-विशेषो ध्यन्तरम् , विशिष्टबुद्धिरित्यर्थः । ततो ध्यन्तरेणोपलक्षितो यो योगः-सम्यग्मनोवाकायव्यापाररूपोऽसम्यग्मनोवाकायनिषेधरूपश्च तस्याप्तिः-प्राप्तिस्तया ॥
(१६) व्यधिकरणत्वादिति । कायसन्तापलक्षणं हि तपः काय एव वर्त्तते, न तु रागादिमलव्याकुले विज्ञाने इति कथमन्यत्र मलप्रलयं प्रत्यलं भवेदिति ? । न ३० तस्य कर्मण इत्थमनेन तपउपक्रमेण प्रकारेण अफलतेति । यदि हि तपः सक्लिष्टं कर्मादत्तफलमेवोपक्रम्यते तदा तत् कर्म विफलमेव प्राप्तमिति न वाच्यमित्यर्थः ॥
१ 'सन्तापेनेत्यादि तदपि' इति ग-पाठः। २ 'क्रमणप्रकारेण' इति ख-पाठः ।