________________
अधिकारः] स्वोपक्षव्याख्यामुनिचन्द्रीयविवरणयुतम्
(मूलम्) चित्तखेदः। एवं भावतपस्विनः संसारमहाव्याधिपीडितस्य मिथ्याविकल्पदुःखज्ञातुस्तत्त्वतस्ततो निर्विण्णस्य भाववैद्यतीर्थकरोपदेशात् सम्यक् तन्निवृत्त्युद्युक्तस्य तथाविधविहितानुष्ठानात् मिथ्याविकल्प-५ दुःखनिवृत्तिदर्शिनः तत्त्वसंवेदनभावारोग्यभाज: समुद्भूतशुभरसान्तरस्य न भवति चित्तसन्तापः, अपि तु तथाविधव्याबाधानिवृत्तितस्तथाऽनुभवसिद्धा भवति परमनिवृत्तिरिति । दृष्टा चेष्टार्थसंसिद्धावन्यत्रापि रनवणिकप्रभृतीनां तथाऽनशनादिकायपीडा मनोनिवृत्तिहेतुरिति न कायसन्तापलक्षणं तपो जैनानामिति । भवति । चानेन प्रागुपात्तकर्मनिर्जरणम्, अनुतापभावादाग्रहनिवृत्तेः, कुशलपरिणामयोगाद् भावनासिद्धराज्ञाराधनात् सर्वतो निवृत्तेः सद्ध्यान
(स्वो० व्या) इदानी दार्टान्तिकयोजनामाह एवमपीत्यादिना । एवं भावतपस्विनः साधोः संसारमहाव्याधिपीडितस्य जन्मादिविकारभावतः मिथ्याविकल्पदुःख-१५ ज्ञातु तेभ्योऽन्यत् तत्त्वतो दुःखमिति तत्त्वतः-परमार्थेन ततः-मिथ्याविकल्पदुःखानिर्विण्णस्य भाववैद्यतीर्थकरोपदेशात्-तीर्थकरोपदेशेन सम्यगअविपरीतेन विधिना तन्निवृत्त्युद्युक्तस्य-मिथ्याविकल्पदुःखनिवृत्तावुधुक्तस्य तथाविधविहितानुष्ठानात्-चित्रविहितानुष्ठानात् मिथ्याविकल्पदुःखनिवृत्तिदर्शिनो मात्रया तत्त्वसंवेदनभावारोग्यभाजः सतः समुद्भूतशुभरसा-२० न्तरस्य प्रशान्तवाहितया न भवति चित्तसन्तापो न चाल्पकायखेदेऽप्येवमिति वर्तते । उपचयमाह-अपि तु तथाविधव्यावाधाविनिवृत्तित:-क्लिष्टव्याबाधानिवृत्त्या तथा-असङ्गशक्तितयाऽनुभवसिद्धा । किमित्याह-भवति परमनिवृत्तिरिति योग्यनुभवसिद्धमेतदिति । लौकिकं दृष्टान्तमाह दृष्टा चेत्यादिना । दृष्टा च लोके इष्टार्थसिद्धौ सत्यामन्यत्रापि-अध्वगमनादौ रत्नवणिकप्रभृ-२५ तीनां-प्राणिनां तथाऽनशनादिकायपीडा आहारायभावेन मनोनिवृत्तेः हेतुलौकिकमेतदिति-एवं न कायसन्तापलक्षणं तपो जैनानामिति स्थितम् । भवति चानेन-तपसा प्रागुपात्तकर्मनिर्जरणम् । कुत इत्याह-अनुतापभावात् । भवति च तपखिनः प्राग्दुश्चरितेऽनुतापः तथा आग्रह निवृत्तेर्निरभिष्वङ्गाशयमावेन। एवं कुशलपरिणामयोगात् अत एव भावनासिद्धेः एवमाज्ञा-३०
१ 'तथा विहिता०' इति क-पाठः । २ 'समुद्भूतशमरसान्तरस्य' इति ग-पाठः। ३ 'ऽन्यतत्त्वतो' इति ङ-पाठः। ४ 'वृत्त्याधुक्तस्य' इति ङ-पाठः। ५ 'योऽप्यनु०' इति क-पाठः । ६ ‘अवगमनादी' इति क-पाठः। ७ 'ध्वङ्गशमभावेन' इति क-पाठः।