________________
२२०
अनेकान्तजयपताकाख्यं प्रकरणम् [षष्ठः
(मूलम्) परमार्थतः खेद एव । न च तत्सन्तापकृदपि तदिष्टं परमज्ञानदर्शनधरैस्तीर्थकृद्भिः तद्वचनप्रामाण्यात् मनोमङ्गुलकर्तृतपःप्रतिषेधात ५ चित्तेन्द्रियवश्यमात्रविधानात्, अन्यथाऽऽर्तध्यानापत्तेः । न च
अल्पकायखेदेऽपि महाव्याधिपीडितस्येव तद्दुःखज्ञातुस्ततो निर्विपणस्य सुवैद्योपदेशात् सम्यक तन्निवृत्त्युद्यतस्य लङ्घनौषधपानायैः दुःखनिवृत्तिदर्शिनः तथाविधारोग्यभाजः समुपजातरसान्तरस्य
(खो० व्या०) १. सन्तापरहितः कायखेदोऽपि परमार्थतः खेद एव, अभिप्रेतार्थसिद्धौ कायखेदस्याखेदतयाऽनुभवात् । न चेत्यादि । न च तत्सन्तापकृदपि न च कायसन्तापकृदपि तत्-तप इष्टम्-अभ्युपगतम् । कैरित्याह-परमज्ञानदर्शनधरैः तीर्थकृद्भिः । कथं नेष्टमित्याह-तद्वचनप्रामाण्यात्-तीर्थकरवचनप्रामाण्यात् । प्रामाण्यं च मनोमङ्गुलकर्तृतपःप्रतिषेधात् । तथा चार्षम्
“सो हु तवो कायव्वो जेण मणो मङ्गुलं न चिन्तेइ ।
जेण न इन्दियहाणी जेण य जोगा न हायन्ति ॥" तथा चित्तेन्द्रियवश्यमात्रविधानात् । विधानं च
"कायो न केवलमयं परितापनीयो
मिष्टै रसर्बहुविधैर्न च लालनीयः। चित्तेन्द्रियाणि न चरन्ति यथोत्पथेषु
वश्यानि येन च तदाचरितं जिनानाम् ॥" इत्यं चैतदङ्गीकर्तव्यमित्याह-अन्यथेत्यादि । अन्यथा-एवमनभ्युपगमे आतध्यानापत्ते, प्रतिषिद्धं चैतत् भगवतेति भावनीयम् । न चेत्यादि । न च अल्प
कायखेदेऽपि सति महाव्याधिपीडितस्येवेति निदर्शनं तदुःखज्ञातुरसम्मूढस्य २५ ततः-दुःखान्निविण्णस्य सुवैद्योपदेशात्-सुवैद्योपदेशेन तन्निवृत्त्युद्यतस्यदुःखनिवृत्त्युद्यतस्य लवनौषधपानाद्यैः तथाविधकायखेदेऽपि दुःख निवृत्तिदर्शिनःसतःतथाविधारोग्यभाजोऽन्तःसुखावेशेन समुपजातरसान्तरस्य आरोग्यसम्भावनया चित्तखेदो न चाल्पकायखेदेऽपीति वर्तते एष दृष्टान्तः ।
१ 'न च सन्ताप०' इति ग-पाठः। २ 'देशात् तन्निवृ.' इति ग-पाठः। ३ मङ्गुलम्असुन्दरम् 1 ४ छाया
तत् खलु तपः कर्तव्यं येन मनो महुलं न चिन्तयति ।
येन नेन्द्रियहानिर्येन च योगा न हायन्ते ॥ ५ आर्या । ६ वसन्ततिलका । * 'दर्शिनसन्तः तथा०' इति क-पाठः ।