________________
स्वोपज्ञव्याख्यामुनिचन्द्रीयविवरणयुतम्
( मूलम् )
विशिष्टावबोधकारणं परमपदासन्नताकर्तृ दैन्यौत्सुक्यवर्जितं पारमार्थिक सुखवृत्ति महासत्त्वसेवितं सदनुष्ठानहेतु शुभात्मपरिणामरूपं तप इति । न चैवम्भूतपरिणामरूपमेतत् कायसन्तापलक्षणमिति ५ युज्यते वक्तुम्, अत एव नेदं कर्मफलमेव, तत्क्षयोपशमतः प्रवृत्तेः तत्त्वत आत्मधर्मत्वात् । न चैवंविधपरिणामवतः सदनशनाद्यनुठानेन प्रायः कायसन्तापोऽपि भवति । न चासौ सन्नपि शुभाबहिश्चरचेतसः चित्तसन्तापाय । न च तत्सन्तापरहितः कायखेदोऽपि ( खो० व्या० ) भावनिषेधेनेति । एतदेव विशेष्यते क्लिष्टकर्मक्षयहेतु, अस्मिन्नेव विषये तपसो विधानात् । एतदेव विशेष्यते विशिष्टावबोधकारणं, तपः पूर्वक सद्ध्यानविधानात् । एतदेव विशेष्यते परमपदासन्नताकर्तृ, कर्मनिर्जरणतः । एतदेव विशेष्यते दैन्यौत्सुकावर्जितं गाम्भीर्यधैर्याश्रयसम्पन्नत्वेन । एतदेव विशेष्यते पारमार्थिकसुखवृत्ति, शमसारतया । एतदेव विशेष्यते महासत्त्वसेवितमिहलोकाद्यपे - १५ क्षाभावेन । एतदेव विशेष्यते सदनुष्ठानहेतु प्रवृत्तिमत् ज्ञानगर्भतया एवम्भूतं शुभात्मपरिणामरूपं तप इत्याईतः कृतान्तः । न चैवम्भूतपरिणामरूपमेतत् - तपः कायसन्तापलक्षणमिति एवं युज्यते वक्तुं एवम्भूतपरिणामरूपस्य विशुद्धध्यानात्मकत्वेन वेद्यसंवेद्यपदरूपतया सुखरूपत्वादिति योऽर्थः अत एच हेतोः नेदं - तपः कर्मफलमेव - एकान्तेन । कुत इत्याह- तत्क्षयोपशमतः - २० कर्मक्षयोपशमतः प्रवृत्तेः कारणात् तत्त्वतः - परमार्थेन आत्मधर्मत्वात् तपसः । न चेत्यादि । न चैवंविधपरिणामवतः - पुंसः सदनशनाद्यनुष्ठान अधिकारिण आगमविहितं सत् तेन प्रायः कायसन्तापोऽपि भवति । न चासौ -कायसन्तापः सन्नपि शुभावहिश्चरचेतसस्तपखिनश्चित्तसन्तापाय, शुभाबहिश्चरचेतस्त्वादेव । न चेत्यादि । न च तत्सन्तापरहितः -चित्त- २५
अधिकारः ]
२१९
(विवरणम् )
(१९) वेद्यसंवेद्यपदरूपतयेति । वेद्यं तत्त्वं संवेद्यते - सम्यक् परिच्छिद्यते यत्र सद् वेद्यसंवेद्यम्, तच तत् पदं चावस्थानलक्षणं वेद्यसंवेद्यपदम् तद्रूपं स्वभावो यस्य तत् तथा तस्य भावस्तत्ता तया ॥
3
१ 'हेतुः प्रवृति०' इति ङ-पाठः । २ ' एवं शुभा०' इति ङ-पाठः । कर्म ०' इति क - पाठः ।
३ ' शमतः क्षयोपशमे