________________
अनेकान्तजयपताकाख्यं प्रकरणम्
[षष्ठः (मूलम्) गमाच । "न हि कस्यचिद् भावेन भावो न भूतो नाम तदा न भूतो
यदि खयं न भवेत् न भवतीति च प्रसज्यप्रतिषेध एष न पर्युदासः" .५ इति वचनादिति निलौठितमेतदात्मसिद्धावित्यलं प्रसङ्गेन ॥ . यच्चोक्तम्-'स्थादेतत् किमनेन (इस्थम्) असम्भविनामुग्धविस्मयकरेण भावनावादेन? कृत्लकर्मक्षयान्मोक्षः, स च कायसन्तापलक्षणेन तपसा प्रागुपात्ताशुभकर्मनिर्जरणतोऽनागतस्य चाकरणेनेत्याशङ्कव तदप्यसत् कायसन्तापस्य कर्मफलत्वात्' इत्यादि, तदपि "भगवदर्हन्मताश्रवणसूचकमेव केवलं नेष्टार्थसाधकमपि, तपःखरूपापरिज्ञानात् । न खलु कायसन्तापरूपं तप इत्याहंतः कृतान्तः। किं तर्हि ? ज्ञानसंवेगशमगर्भ क्षायोपशमिकभाववृत्ति क्लिष्टकर्मक्षयहेतु
(खो० व्या०) भावे-अधिकृतभावे तदुपपत्तेः-निवृत्त्युपपत्तेर्न तदाश्रयत्वम् । अभ्युच्चयमाह१५ निवृत्तेः प्रसज्यप्रतिषेधत्वाभ्युपगमाच तदधिकत्वायोगः । अभ्युपगमं दर्शयति न हीत्यादिना । न हि कस्यचिद् भावेन उत्तरस्य भावो न भूतो नाम प्राक्तनः तदा न भूतोऽसौ भावः । यदि स्वयं न भवति-आत्मनैव न भवति-न भवति इति च प्रसज्यप्रतिषेध एष तुच्छोऽभवनमात्रं न पर्युदासो भवनान्तररूपम् इति वचनाद् वार्तिक इति निर्लोठितमेतत्-अधिकृतं २० वस्तु आत्मसिद्धौ इत्यलं प्रसङ्गेन ॥
यच्चोक्तं मूलपूर्वपक्षे एंव-स्यादेतत् किमनेनेत्यादि यावत् कायसन्तापस्य कर्मफलत्वादित्यादि, तदपि किमित्याह-भगवदर्हन्मताश्रवणसूचकमेव केवलं नेष्टार्थसाधकमपि । कथं न साधकमित्याह-तपाखरूपापरि
ज्ञानात् । कथमपरिज्ञानमित्याह न खलु-नैव कायसन्तापरूपं तप इति २५ आर्हता कृतान्त:-आर्हतः सिद्धान्तः । किं तर्हि १ ज्ञानसंवेगशमगर्भम्, ज्ञानाद्यभावे तदभावात् । एतदेव विशेष्यते क्षायोपशमिकभाववृत्ति औदयिक
(विवरणम्) (१४) न तदाश्रयत्वमिति । न-नैव तदाश्रयत्वं भावनिवृत्तेः । यस्मिन् समये भावः तस्मिन्नेव न भावनिवृत्तिरित्यर्थः॥ __ १ 'एव न' इति ग-पाठः । २ 'प्रपञ्चेन' इति क-पाठः। ३ प्रथमे खण्डे २८तमे पृष्ठे २९तमे च। ४ 'कारणभावना' इति क-पाठः। ५ 'वाऽकरणे.' इति क-पाठः। ६ 'पत्तेः एतदाश्रय.' इति हु-पाठः। ७ प्रथमे खण्डे २८तमे पृष्ठे।