________________
अधिकारः ]
स्वोपज्ञव्याख्यामुनिचन्द्रीयविवरणयुतम्
(मूलम्)
स्यादेतत् स एव खनिवृत्तिः, तस्यैव तदवधिकत्वात् । अपरजननं च जनयतीति जननात् । नैतदेवं भावस्यैव तदभावत्वविरोधात्, स एव स्वनिवृत्तिरित्यभ्युपगमे चैतदापत्तेः तदवधिकत्वायोगात् तदा - ५ भावे प्रागू च तदभावे तदुपपत्तेः निवृत्तेः प्रसज्यप्रतिषेधत्वाभ्युप(स्वो० व्या० )
स्यादेतदित्यादि । अथैवं मन्यसे - स एव - अधिकृतो बोधः स्वनिवृत्तिः । कुत इत्याह- तस्यैव - अधिकृतबोधस्य तदवधिकत्वात् - निवृत्तेस्तदाश्रयत्वेन । अपरजननं च स एव, जनयतीति जननादिति कृत्वा । एतदाशवाह - नैत १० देवमित्यादि । नैतदेवं यदुक्तं परेण । कुत इत्याह- भावस्यैव-अधिकृतबोधाख्यस्य तदभावत्वविरोधात् । यदि नामैवं ततः किमित्याह स एव खनिवृत्तिरित्यभ्युपगमे च सति एतदापत्तेः - अधिकृतविरोषापत्तेः तदवधिकत्वायोगात्निवृत्त्यवधिकत्वायोगात् । अयोगश्च तदाभावे - स्वभावकाले प्रार्द्ध च तद
२१७
( विवरणम् )
स्वभावद्वयमस्य स्वनिवृत्त्यपरजननलक्षणं वर्तते । एतच स्वभावद्वयं मिथो भिन्नमभिनं वा । भिन्नमपि सद्बोधमात्राद् भिन्नमभिन्नं वा । अभिन्नमपि सद्बोधमात्रादभिन्नं भिन्नं वा । इति परमार्थतो विकल्पचतुष्टयम् । तत्र यदि मिथो भिन्नौ सन्तौ बोधादपि भिन्नावेतौ स्वभावावभ्युपगम्येते तदा तस्य बोधमात्रस्यैतौ स्वभावाविति संङ्गायोगः ॥ १ ॥
अथ मिथो भिन्नावपि बोधमात्रादभिन्नावभ्युपगम्येते तर्हि स्फुट एव विरोधः | २० यौ हि मिथो भिन्नौ तौ कथमेकत्र वर्त्तते इति ? ॥ २ ॥
अथ परस्परमभिन्नावेतौ स्वभाव बोधमात्रादपि अभिन्नाविति तृतीयः पक्षस्तर्हि अन्वयापत्तिः, यैव स्वनिवृत्तिस्तदेवापरजननमिति कृत्वा ॥ ३ ॥
अथ परस्परमभिन्नौ वस्तुनच भिन्नाविति पक्षस्तर्हि तस्येति सङ्गायोगो विरोध स्फुट एव । यौ परस्परभिन्नौ तौ कथं वस्तुनोऽभिन्नौ भवत इति ? ॥ ४ ॥ ૧ वृत्तिकृता च विकल्पयुगलकमेव भाषितम् । इतरत् तु विकल्पयुगलकमुपलक्षणद्वारेणैव गतमिति कृत्वेति सम्भाव्यते ॥
(१०) जनयतीति जननादिति कृत्वेति । जनयतीति जनक इत्युत्पाद (क) इत्यर्थः॥ (११) तदभावत्वविरोधादिति । तस्य भावस्याभावस्तदभावः, तस्य भावःतत्त्वं तदभावत्वमित्यर्थः, तस्य विरोधात् । भाव एवाभावो न भवतीत्यर्थः ॥
१ 'सति तदापत्तेः' इति पाठः । २ 'सभीयोगः' इति ख- पाठः क - पाठस्तु 'संयोगाः' इति । ३ 'संयोगाः" इति क - पाठः
अनेकान्त ० २८