________________
अनेकान्वजयपताकाख्यं प्रकरणम्
( मूलम् )
स्वभावत्वेनास्यैव तत्वात्, अन्यथा तत्तद्भावासिद्धेः, स्वनिवृत्त्यपरजननख भावभेदाभेदयोस्तद्भेदाभेदाभ्यां विरोधान्वयापत्त्यादिदोष५ तोऽस्यैवायोगाच्च ॥
२१६
[ षष्ठः
( खो० व्या० )
प्रसङ्गात् अजनकस्य तुच्छत्वात् तदात्मकत्वाच्चास्येति भावः । सोपाख्यत्वे च अभ्युपगम्यमाने वस्तुत्व इत्यर्थः । किमित्याह तत्तुच्छत्वविरोधात् तस्यैवतावत्काल जननस्य तुच्छत्वविरोधात् । विरोधश्च सर्वयैकस्वभावस्वेन हेतुनाऽ१० स्यैव - अधिकृतबोधमात्रस्य तस्वात् तावत्कालार्जननत्वात् । इत्थं चैतदङ्गीकर्तव्यमित्याह - अन्यथा - एवमनभ्युपगमे तत्तद्भावासिद्धेः तस्य - अधिकृतबोधमात्रस्य तद्भावासिद्धेः - तावत्काला जैननभावासिद्धेः । दोषान्तरमाह स्वनिवृत्तीत्यादिना । स्वनिवृत्ति वापरजननं च स्वनिवृत्त्यपरजनने, ते एव स्वभावौ तयोः भेदाभेदौ स्वनिवृ
परजननख भावभेदाभेदौ तयोः सतोः तद्भेदाभेदाभ्यां-अधिकृतवस्तु१५ भेदाभेदाभ्यां यथासङ्घ विरोधान्वयापत्त्यादिदोषतः अस्यैव-अधिकृतयोधमात्रस्य अयोगाच्च कारणाद् वचनमात्रत्वमिति क्रिया । भावार्थस्तु यदि तौ स्वनिवृत्त्यपरaareerat fast भिन्नौ तस्माच्च वस्तुनोऽभिन्नौ एवं विरोधः, एकस्य द्वयाव्यतिरेकेण, अथाभिन्नौ वस्तुनोऽप्यभिन्नावित्यन्वयः, अपरजननस्यैव स्वनिवृत्तित्वादिति ॥ ( विवरणम् )
२० (७) अजनकस्य तुच्छत्वात् तदात्मकत्वाच्चास्येति भाव इति । यदि हि बुद्धज्ञानं परम्परयाऽप्यजनकमित्यभ्युपगम्यते तदा वस्त्वेव तन्न भवति, अजनकत्वादाकाशकुसुमवत् ॥
(९) एकस्वभावत्वेन हेतुनेति । आनन्तर्येण जनकं परम्परया स्वजनकमिदं बुद्धज्ञानमित्येवंरूपं स्वभावद्वयं नास्त्येव, विज्ञानस्यैकस्वभावत्वादित्यर्थः । ततो यदि २५ तनकस्वभावं तदा सर्ववैव जनकमस्तु । किमनया जडत्वसूचिकया कल्पनया यदुतानन्तर्येण जनकं परम्परया त्वजनकत्वमिति ? । अथाजनकस्वभावं तर्हि सर्वदेवावस्तु, तत् कथं कदाचिदपि जनकं स्यादिति ? ॥
(१३) स्वनिवृत्तिश्चापरजननं चेयादेरयमभिप्रायः - एतदधिकृतबोधमात्रं बुद्धज्ञानसम्बन्धि क्षणिकत्वादात्मानं द्वितीयसमये निवर्त्तयति अपरं च क्षणं जनयतीति
१ 'जनकत्वात् इति क-पाठः । २ 'जनन स्वभाव०' इति ङ-पाठः । ३ 'द्वितीयस्य समये ' इति क-पाठः ।