________________
अधिकारः] खोपनव्याख्यामुनिचन्द्रीयविवरणयुतम् २१५
(मूलम्) कारी, न चासतो ग्रहणमपीत्यप्रमाणकमेतत् । नाप्रमाणकम् , सत्संवेदनस्यैवात्र प्रमाणतोपपत्तेः । तथाहि-तदेव तथाखभावं यदियता कालेन परम्परयाऽप्यजनकमिति स्वमात्रपरिच्छेदकत्वेऽप्यनेन ५ तद्रहणमिति।न, वचनमात्रत्वात् , तावत्कालाजनकत्वेऽस्य निरुपाख्यत्वप्रसङ्गात्, सोपाख्यत्वे च तच्छत्वविरोधात्, सर्वथैक
(खो० व्या०) इत्ययम्-अभ्युपगमः सुतरामसमञ्जसकारी । न चासतः-एकान्ततुच्छस्य ग्रहणमपि इन्द्रिययोगाभावेनेत्यप्रमाणकमेतदिति । अधिकृतासत्त्वं आह- १० नाप्रमाणकम् । कथमित्याह-सत्संवेदनस्यैव-अधिकृतबोधमात्रसंवेदनस्यैव अत्र-असत्त्वे तदसत्त्व एव, प्रमाणत्वोपपत्तेः । एतदेव भावयति तथाहीत्यादिना । तथाहीति पूर्ववत् । तदेव-बोधमात्रं तथाखभावं-एवम्प्रकारखभावं यदियता कालेन-कल्पादिना परम्परयापि-अनेकक्षणरूपया अनन्तरूपतयाऽप्यजनकम् । इति-एवं खमात्रपरिच्छेदकत्वेऽप्यधिकृतबोधमात्रस्य अनेन-१५ विशिष्टेन बोधमात्रेण तद्रहणम्-अधिकृतासद्ग्रहणमिति । एतदाशपाह-न, वचनमात्रत्वात्, निरर्थकत्वादित्यर्थः । एतदेवाह तावत्कालेत्यादिना । तावत्कालाजननात्मकत्वेऽस्य-अधिकृतबोधमात्रस्य । किमित्याह-निरुपाख्यत्व
(विवरणम्) (९-१०) न चासतः-एकान्ततुच्छस्य ग्रहणमपीति। यदि ह्यार्यपुद्गला एकान्तत २० एव तुच्छाः खरविषाणप्रख्याः समभ्युपगम्यन्ते तदा अवस्तुत्वादेव न ते केनचित् प्रमाणेन गृह्यन्त इत्यर्थः॥ (१०) अधिकृतासत्त्वमिति । आर्यपुद्गलासत्त्वम् ॥
(११) अधिकृतबोधमानसंवेदनस्यैवेति । अधिकृतं च तद् बोधमानं च, बुद्धज्ञानमित्यर्थः, तस्य संवेदनम्-आत्मनैवावबोधः, स्वसंवेदनमित्यर्थः ॥ २५
(१२) तदसत्त्व एवेति । बुद्धज्ञानासत्त्वे ग्राह्ये । अयमभिप्राय:-बुद्धो भगव(वा)नात्मीयेन ज्ञानेनात्मस्वरूपमेवंरूपमेव बुध्यते यदुत कल्पात्ता(?)दौ काले मदीयज्ञानलक्षणसन्तानः क्षयं यास्थतीति बुद्धवा(?ढे) ज्ञानमेव बुद्धज्ञानासत्त्वे प्रमाणमिति॥
(१४) अनन्तरूपतयाऽपीति । न विद्यतेऽन्तः-पर्यन्तो यस्य तदनन्तम् , अनन्तं रूपं यस्याः सा अनन्तरूपा तयाऽपीति । एतच्चानेकक्षणरूपे तस्यैव पदस्य ३० सुखावबोधाय पर्यायख्यापनं कृतमिति ॥
१'चासन्तो प्रहण.' इति क-पाठः। २ इत्यभ्युप०' इति ङ-पाठः। ३ 'बुद्धा ज्ञान.' इतिच-पाठः।