________________
अनेकान्तजयपताकाख्यं प्रकरणम्
[षष्ठः (मूलम्) प्रलापोक्तिमात्रं तर्थभ्युपगमः । न चेदं परममुनिवचने बुद्धिमत
आपादयितुं न्याय्यमिति परिभाव्यतामेतत् ॥ ५ अथापरः पक्षा-कथमसतां वस्तुत्वम् ? कथं वा न पुष्करपुष्करादीनाम् ? कथं वा सत् सर्वथाऽसद् भवति कथं वा नासदपि सत्? 'ततश्च नानादित्वमपि सन्तानानां प्राप्तमित्ययं सुतरामसमञ्जस
(खो० व्या०) सर्वं न जानात्यकिञ्चिज्ञोऽयमिति प्राप्तम् । असमञ्जसं चैतत् । उपचयमाह न ३० चेत्यादिना । न च तत्-बोधमात्रमपरग्राह्यम् । इति-एवमज्ञातालापोक्ति
मात्रं तद्यभ्युपगमः। न चेदमित्यादि । न चेदम्-अज्ञातप्रलापोक्तिमात्रत्वं परममुनिवचने-बुद्धवचने बुद्धिमतः-पुंस आपादयितुं न्याय्यमितिएवं परिभाव्यतामेतत् ॥
द्वितीयपक्षमधिकृत्याह-अथापरः पक्ष:-असन्त एवेत्ययम् । एतदाशङ्याह१५ कथमसताम्-आर्यपुद्गलानां वस्तुत्वम् ? कथं वा न पुष्करपुष्करादीनांनाकाशपद्मादीनाम् ? । कथं वा सत्-भावरूपं सर्वथाऽसद् भवति-अभावरूपतामापद्यते ? कथं वा नासदपि सर्वथा सद् भवति ? । ततश्चेत्यादि । ततश्च-एवं च सैति न अनादित्वमपि सन्तानानां प्राप्तमसद्भवनेन कादाचित्कतया
. (विवरणम्) २० (१०) अपरप्राथमिति । अपरेण-बुद्धव्यतिरिक्तेन गृह्यते यत् तदपरग्राह्यम् ।
अयमभिप्राय:-यदेतद् बुद्धस्य ज्ञानं तद् यदि स्वसंविदितबोधमात्रमेवाभ्युपगम्यते तदा अन्येन केनापि न तद् गृह्यते इत्यायातम् । अनालम्बनस्याप्राह्यत्वेन भवद्भिरभ्युपगमात् ॥
(११) अभ्युपगम इति । असंस्कृतप्रभाविता ह्यार्यपुद्गला इत्येवंरूपः ॥ २५ (१७) कथं वा नासदपि सर्वथा सद्भवतीति । यदि वार्यपुद्गललक्षणं वस्तु सदप्यसद् भवति तदा असन्तोऽपि खरविषाणादयः किमिति सन्तो न भवन्तीत्यर्थः १ ॥ . (१८) अनादित्वमपीति । यदा ह्यसदपि सद् भवतीत्यभ्युपगम्यते तदा कश्चित् सन्तानपूर्वमानसन्नेव सन्नित्यभ्युपगमः प्राप्नोतीत्यर्थः ।।
१ 'सर्वथा सद् भवति' इति ग-पाठः। २ ततश्च न नादित्व०' इति क-पाठः। ३ 'सति अनशनाहित.' इति -पाठः ।