________________
अधिकारः] खोपशव्याख्यामुनिचन्द्रीयविवरणयुतम् २१३
(मूलम् ) वस्तुत्वम् । असंस्कृतत्वादिति चेत्, एतदेव कथमिति चिन्त्यम् । सम्भूय प्रत्ययाभूतेरिति चेत्, सामग्रीजनिकेति त्यक्तोऽभ्युपगमः। पाक्षिक एवायमिति चेत्, किमत्र ज्ञापकमिति वाच्यम् । “असं- ५ स्कृतप्रभाविता ह्यार्यपुद्गलाः" इति वचनम् । कः खलु अस्वार्थः । किमुपादानमात्रजन्मानः किं वा असन्त एवेति? । यद्याथः पक्षो बोधमात्रा बोधमात्रजन्मेति न तेन कस्यचिदवगमः। ततश्च परित्यक्तमस्य सर्वज्ञत्वमसमञ्जसं चैतत् । न च तदपरमाणमित्यज्ञात
(खो० व्या०) विकलस्य-अशुच्यादिविकलस्स भगवता-बुद्धस्स वस्तुत्वम् ? । असंस्कृतत्वात्। इति चेद् भगवत एतदेव-असंस्कृतत्वं कथमिति चिन्त्यम्। सम्भूय प्रत्ययाभूतेः। इति चेत्, एतदाशङ्कयाह-सामग्रीजनिकेति त्यक्तोऽभ्युपगमः। पाक्षिक एवायम् । इति चेत्, एतदाशङ्कयाह-किमत्र ज्ञापकमिति वाच्यम् । “असंस्कृतप्रभाविता हि आर्यपुद्गलाः” इति वचनं ज्ञापकम् । १५ एतदाशक्याह-कः खल्वस्याओं वचनस्य ? । किमुपादानमात्रजन्मान आर्यपुद्गलाः किं वा असन्त एवेति ? । उभयथाऽपि दोषमाह-यद्याधः पक्षो बोधमात्रादुपादानात् बोधमात्रजन्म इति-एवं न तेन कस्यचिववगमो बोधमात्रेण अनालम्बनेन । ततश्च परित्यक्तमस्य-आर्यपुद्गलस्य सर्वज्ञत्वम्।
(विवरणम्) (११-१२) असंस्कृतत्वादिति । समेत्य हेतुभिरकृतत्वात् । स्वाभाविको ह्यसौ । भगवतो गुणो यदुत शुचिरूपत्वमदुःखरूपता च ॥
(१२-१३) सम्भूय प्रत्ययाभूतेरिति । सम्भूय-मिलित्वा ये प्रत्यया:-कारणानि कार्य जनयन्ति तेभ्यः सकाशादभूते:-अनुत्पादात् ।।
(१४) पाक्षिक एवायमिति । कचित् सामग्रीजनिका कचिन्नेत्यर्थः ॥ २५ (१५) असंस्कृतप्रभाविता हीति । असंस्कृताः सामग्यः अनिष्पादिताः सन्तः प्रभवम्-उत्पादं प्राप्ता हि-स्फुटम् ॥
(१५) आर्यपुद्गला इति । बुद्धात्मानः ॥
(१९) अनालम्बनेनेति । न विद्यते आलम्बनं यस्य तदनालम्बनं तेन । यदि हि विषयवस्त्वालम्ब्योत्पन्नं स्याद् बुद्धज्ञानं तदा तत् किश्चिज्जानीयात् । यदा तु खोपा-३० दानक्षणमात्रात् तदुत्पद्यते तदा न किञ्चित् तेनावगम्यत इति ।।
१ वा सन्त एवेति' इति ग-पाठः ।