________________
अनेकान्तजयपताकाख्यं प्रकरणम्
( मूलम् )
स्यादेतदेककाले खलु भवनाभवनयोर्विरोधः । क्षणिके तु भवने क्षणादूर्द्धमवश्यमेव तन्न भवति, अन्यथा क्षणिकत्वविरोधादित्युक्त५ दोषाभावः । यत्किञ्चिदेतत्, अधिकदोषापत्तेः । एवं हि न यदैव भवति, तदैव न भवति, अपि तूर्द्धम; अतः कादाचित्कं तदभवनमिति कादाचित्कत्वत एव तदुत्पत्तेः अत एव नाशयोगाद् भावोन्मज्जनप्रसङ्ग इत्यधिकदोषापत्तिः । निर्लोठितं चैतदधः । अतः सर्वथा अनात्मकत्वे निःस्वभावत्वेनानित्यत्वासिद्धिः । अतो वस्त्वेव तत्१० स्वभावत्वात् तथा तथा भवत् पूर्वपूर्वपर्यायनिवृत्तिस्वभावं कथञ्चिदनित्यं तथाप्रतीतेरिति । एवं यदि सर्वथाऽशुचि दुःखं च कथं वैस्त्वक्षये तत्क्षय : १ । केन चायमिष्ट इति चेत्, कथं तद्विकलस्य भगवतो ( खो० व्या० )
२१२
[ षष्ठः
स्यादेतत्-अथैवं मन्यसे - एककाले खलु इत्येककाल एव भवनाभवन१५ योर्विरोधः । क्षणिके तु भवने सति क्षणादूर्द्धमवश्यमेव तत् - भवनं न भवति । अन्यथा - एवमनभ्युपगमे किमित्याह- क्षणिकत्वविरोधादितिएवमुक्तदोषाभाव इति । एवं पूर्वपक्षमाशङ्कयाह-यत्किञ्चिदेतत्- अनन्तरोक्तम् । कुत इत्याह-अधिकदोषापत्तेः । एनामेवाह एवं हीत्यादिना । एवं यस्मात् यदैव न भवति तदैव (न) भवति, अपि तृर्द्धम्-अन्यदाः अतः कादा२० चित्कं तदभवनं-अधिकृतभवनाभवनम् । इति - एवं कादाचित्कत्वत एव कारणात् तदुत्पत्तेः - अभवनोत्पत्तेः । अत एव - उत्पत्तेरेव नाशयोगात् कारणात् अभवनस्य किमित्याह- भावोन्मज्जनप्रसङ्गः - अधिकृत भवनोन्मजनप्रसङ्गः तदभवननाशान्यथाऽनुपपत्तेः । इति - एवमधिकदोषापत्तिः । निर्लोठितं चैतदधः । अतः सर्वथाऽनात्मकत्वे वस्तुनो निःस्वभावत्वेन हेतुना अनित्यत्वा२५ सिद्धिरिति स्थितम् । अतो वस्त्वेव तत्स्वभावत्वात् कारणात् तथा तथा-तेन तेन पर्यायरूपेण भवत् पूर्वपूर्वपर्यायनिवृत्तिस्वभावं सत् कथचिदनित्यं - तदन्यथाभवनेन तथाप्रतीतेरिति । एवमित्यादि । एवं यदि सर्वथा अशुचि दुःखं च वस्त्वेवं कथं वस्त्वक्षये सति तत्क्षय :- अशुचिदुःखक्षयः १ । केन चार्य - वस्त्वक्षये तत्क्षय इष्टः १ । इति चेत्, एतदाशयाह-कथं तद्
१ द्रष्टव्यं २१० तमं पृष्ठम् । २ 'वस्तुक्षये' इति ग-पाठः । ४ 'भवनोन्मान' इति क-पाठः ।
३ ' वाऽयमिष्ट' इति पाठः ।