________________
अधिकारः] स्वोपशव्याख्यामुनिचन्द्रीयविवरणयुतम् २११
(मूलम्) द्वितीयक्षणे यतस्तदेव न भवति, अतस्तदनात्मकमनित्यमिति चोच्यते इति चेत्, यदेव भवति तदेव न भवतीत्येकत्र भवनाभवनयोर्विरोधः । यदा भवति न तदा न भवति, यदा च न भवति न ५ तदा भवतीति विरोधाभाव इति चेत् एकाधिकरणत्वनिबन्धनोऽयम्। न च तदेवमपि नेति निभाल्यतामेतत् ॥ ___ अभवनस्याभावाद् भवनमात्रस्यैव वस्तुत्वादुक्तदोषाभाव इति चेत्, तदभावेन सदाभवनापत्तिर्नाम दोषान्तरमिति यत्किञ्चिदेतत् । तस्यैव क्षणभवनखभावत्वात् तदतिरिक्ताभवनाभावान्न १० दोषान्तरमिति चेत्, एवमपि क्षणादूर्द्ध तदेव न भवतीति उक्तदोषानतिवृत्तिः॥
(स्त्रो० व्या०) पराभिप्रायमाह-द्वितीयक्षणे-वस्त्वात्मलाभानन्तरभाविनि यतस्तदेव न भवति वस्त्वेकान्तेन अतस्तत्-वस्तु अनात्मकमनित्यमिति 'चोच्यते । १५ इति चेत्, एतदाशङ्कयाह-यदेव भवति वस्तु तदेव न भवतीति-एवमेकत्र भवनाभवनयोर्विरोधः। यदेत्यादि । यदा भवति न तदा न भवति, आत्मलाभोत्तरकालमभवनात् । यदा च न भवति न तदा भवति, आत्मलाभकाल एव भवनात् । इति-एवं विरोधाभावः। इति चेत्, एतदाशयाह-एकाधिकरणत्वनिबन्धनोऽयं-विरोधः । न च तदेकाधिकरणत्वमेवमपि-काल-२० भेदेऽपि सति नेति । किं तर्हि ? अस्त्येव । निभाल्यतामेतत् सूक्ष्मबुद्धिचक्षुषा । __ अभवनस्येत्यादि । अभवनस्य अभावात् कारणात् भवनमात्रस्यैव वस्तुत्वात् उक्तदोषाभावस्तत्त्वत एकाधिकरणत्वाभावात् । इति चेत्, एतदाशक्याह-तदभावेन अभवनाभावेन । किमित्याह-सदाभवनापत्तिर्नाम अधिकृतभवनस्य दोषान्तरम् । इति-एवं यत्किञ्चिदेतत्-अनन्तरोदितम् । तस्यैवे-२५ त्यादि । तस्यैव-क्षणभवनस्य क्षणभवनस्वभावत्वात् कारणात् तदतिरिक्ताभवनाभावतः-भवनातिरिक्ताभवनाभावात् न दोषान्तरम्-अनन्तरोदितम् । इति चेत्, एतदाशयाह-एवमपि क्षणादूच्चमात्मलाभक्षणात् तदेव न भवति-यदेव भवति तदेव न भवति इत्युक्तदोषानतिवृत्तिः , तदेकाधिकरणतया विरोध एवेत्यर्थः ॥
१ 'चोच्यते' इति ङ-पाठः। २ 'तदव्यतिः' इति उ-पाठः । ।