________________
२१०
अनेकान्तजयपताकाख्यं प्रकरणम्
[षष्ठः
ज्ञानसम्भवेन वस्तुयाथात्म्यावसायात् औदासीन्यभावत उपायप्रवृत्त्या तत्प्रकर्षरूपवैराग्याभावः । कथं वा सत्यस्मिन् असत्"प्रवृत्तिरहितस्य निःसङ्गभावात् साम्परायिकबन्धशून्यस्य परमार्थ(?) गुणस्थानयोगतोऽपचीयमानकर्मराशेः सर्वपरिशातभावतो मुत्तयभाव इति परिचिन्त्यतामेतत् ॥
यदा तु तदात्माननादिकमनात्मकायेव तदोक्तवद् युक्तो भावनाभावः, भावेऽपि मिथ्यारूपता वैराग्याभावो मुत्यभावश्चेति। १० इतश्चैतदेवं सर्वथाऽनात्मकत्वे निःखभावत्वेन अनित्यत्वासिद्धिः,
अनित्यत्वस्य वस्तुधर्मत्वात्, अतद्धर्मत्वे तदभावेन वस्तुनो नित्यस्वापत्तेः, तद्धर्मत्वे च तदव्यतिरेकतः कथमनात्मकत्वं वस्तुन एवात्मकत्वात् ॥
(स्वो० व्या०) ५ विरतिपरिणामयोगात्, अत एव तत्त्वज्ञानसम्भवेन वस्तुयाथात्म्यावसायात् हेतोः औदासीन्यभावतः सनिबन्धनत्वेन उपायप्रवृत्त्या उक्तनीतितः तत्प्रकर्षरूपवैराग्याभावः-औदासीन्यप्रकर्षरूपवैराग्याभावः । कथं वा सत्यस्मिन्-वैराग्ये असत्प्रवृत्तिरहितस्य-प्राणिनः निःसङ्गभावात् कारणात् साम्परायिकबन्धशून्यस्य वीतरागतया परमगुणस्थानयोगतः-शेलैश्य२० वात्या अपचीयमानकर्मराशेः तदपराबन्धकत्वेन सर्वपरिशातभावतो भवोपग्राहिकर्माधिकृत्य मुत्त्यभाव इति कथं वा मुक्त्यभाव इति परिचिन्त्यतामेतत्॥ ___ यदा स्वित्यादि । यदा तु तदात्माङ्गनादिकमनात्मकायेव-एकान्तेन सदा-तस्मिन् काले उक्तवत्-यथोक्तं प्राक् भावकमाव्याभावेन तथा युक्तो
भावनाभावः, भावेऽपि भावनाया मिथ्यारूपता वस्त्वन्यथात्वेन एवं वैरा२५ग्याभावो मुत्तयभावश्चेति युक्तः । अभ्युच्चयमाह इतश्चेत्यादिना । इतश्च एतदेवं यदधिकृतं कथमित्याह-सर्वथाऽनात्मकत्वेन वस्तुनः निःस्वभावत्वेन हेतुना । किमित्याह-अनित्यत्वासिद्धिः। अनित्यत्वासिद्धिश्च अनित्यत्वस्य वस्तुधर्मत्वात्, अतद्धर्मत्वे-अवस्तुधर्मले तदभावेन-अनित्यत्वाभावेन अतद्धर्मतया वस्तुनो नित्यत्वापत्तेः, इतश्चैतदेवमिति वर्तते । तद्धर्मत्वे च३० वस्तुधर्मत्वे च नित्यत्वंस्य तदव्यतिरेकता-वस्त्वव्यतिरेकतः कारणात् कथमनात्मकत्वं-निःस्वभावत्वं च वस्तुनः? । कथं च न स्यादित्याह-वस्तुन एवात्मकत्वात् इति ॥
'स्वसिद्धः इति ग-पाठः ।