SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ ०९ अधिकारः] खोपशव्याख्यामुनिचन्द्रीयविवरणयुतम् (मूलम्) उक्तिमात्रमेव, उक्तवनिर्विषयत्वात् । यच्चेदमुक्तम्-'यदा तु तदात्माङ्गनादिकं सात्मकाद्यपि तदा यथोक्तभावनाभावाद् भावेऽपि मिथ्यारूपत्वाद् वैराग्याभावः, तदभावाच मुक्त्यभाव इति' तदे- ५ तदत्यन्तनिःस्वस्य महाधने दानभोगवति खदोषापादनम् । तथाहिकथञ्चित् सास्मकादावेव तस्मिन् भावकविषयभावेनानुपचरितरूपा सम्भवति भावना, नान्यथेति कथं यथोक्तभावनाभावः?। कथं वा पररूपेण अनात्मके तत्तत्संयोगापेक्षयाऽनित्ये तदशुचिपरिणामभावादशुचौ तथासन्तापकरत्वेन दुःखे सत्यस्या मिथ्यारूपत्वम् १।१० कथं वा तस्यास्तथाविधनिर्वेदभावेन विरतिपरिणामयोगात् तत्त्व (स्त्रो० व्या०) तत् परपक्षे बौद्धमते उक्तिमात्रमेव । कथमित्याह-उक्तवत्-यथोक्तं तथा निर्विषयत्वात् कारणात् । यच्चेदमुक्तं मूलपूर्वपक्षे एव-यदा तु तदात्मागनादिकं सात्मकाद्यपि तदा यथोक्तभावनाभावात् वस्तु तथाभावेन १५ भावेऽपि मिथ्यारूपत्वाद् भावनाया उक्तादेव हेतोः । किमित्याह-वैराग्याभावः तदभावाच-वैराग्याभावाच मुत्त्यभाव इति । तदेतत्-मूलपूर्वपक्षोक्तं अत्यन्तनिःखस्य कस्यचिन्महाधने कस्मिंश्चित् किंविशिष्ट इत्याह-दानभोगवति खंदोषापादनं किमसौ ददाति भुङ्क्ते वा यो महाधन इत्येवम्प्रायम् । एतदेवाह तथाहीत्यादिना । तथाहीति पूर्ववत् । कथञ्चित्-केनचित् प्रकारेण प्रतिपक्ष-२० नयानुसारिणा सात्मकादावेव तस्मिन्-वस्तुनि भावकविषयभावेन सता तात्त्विकेन अनुपचारितरूपा-मुख्या सम्भवति भावना, नान्यथा । इतिएवं कथं यथोक्तभावनाभावः ? नैवेत्यर्थः । कथं वा पररूपेणानात्मकेवस्तुनि तत्तत्संयोगापेक्षया बाह्यान्तरमावावधिकृत्य अनित्ये तदशुचिपरिणामभावान्नरकादिगतिमधिकृत्य अशुचौ तथा-संयोग-वियोगाभ्यां सन्ताप-२५ करत्वेन हेतुना दुःखे सति वस्तुनि अस्याः-भावनाया मिथ्यारूपत्वम् ? कथं वा तस्याः-भावनायाः तत्प्रकर्षरूपवैराग्याभाव इति योगः। कथं च न सादित्याह-तथाविधनिर्वेदभावेन-चित्तक्षयोपशमभावतश्चित्तनिवेदभावेन हेतुना १ प्रथम खण्टे २८तमे पृष्ठे। ३ तथा यथोक्त०' इति क-पाठः। ३ 'पादकम्' इति गपाठः । ४ प्रबमे खो २८तमे पृष्ठे । ५ 'द्रष्टव्यं प्रथमस्य खण्डस्य २८तम पृष्ठम् । ६ 'दोषापादान' इति क-पाठः। ७ 'भावाधिकृत्यानि नित्यानित्ये' इति क-पाठः । ८ 'शमयोगभावात् चित्र.' इति उ-पाठः। अनेकान्त. २७
SR No.008406
Book TitleAnekantajay patakakhyam Prakaranam Part 2
Original Sutra AuthorHaribhadrasuri
AuthorMunichandrasuri
PublisherOriental Research Institute Vadodra
Publication Year1947
Total Pages503
LanguageSanskrit, English
ClassificationBook_Devnagari & Philosophy
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy