________________
२०८
अनेकान्तजयपताकाख्यं प्रकरणम्
[षष्ठः
च। ततश्च यद्यनात्मकं कथमनित्यम् ? अथानित्यं कथमनात्मकमिति ? । कथं च बुद्धधर्मसङ्घलक्षणे परमनिवृत्तिहेतौ दोषकलङ्क५ रहिते महारत्नत्रये सति वचनमार्गकुशलस्य तदपायभीरोः अपास्ताशङ्कमिदं वक्तुमुचितं यदुत सर्वमेवाशुचि सर्वमेव दुःखमिति, तदाशातनापत्तेः, असदभिधानात्, अन्यथा रत्नत्रयायोगः, तदन्याशुच्याद्यविशेषात् योगे वाऽतिप्रसङ्ग इति ।
एवंच तथाहि 'एतदात्मा-ऽङ्गना-भवन-मणि-कनक-धन-धान्यादिक१ मनात्मकमनित्यमशुचि दुःखमिति कथञ्चिद् विज्ञाय (भावतः) तथैव भावयतो वस्तुतस्तत्राभिष्वङ्गास्पदाभावाद् भावनाप्रकर्षविशेषतो वैराग्यमुपजायते, ततो मुक्तिः। तथाहि-आत्माऽऽत्मीयदर्शनमेव मोहः, तत्पूर्वक एवा(?त्मा)त्मीयस्नेहो रागः, तत्पूर्विकैवानुरागविषयोपरोधिनि प्रतिहतिद्वेष इति कृत्वा' इति यदुक्तं तत् परपक्षे
(स्वो० व्या०) पर्यायशब्दाः खल्वेत इत्यर्थः । एवमनित्यमस्थिरं सदिति च अभिन्नार्थ इति । ततश्च यद्यनात्मकं वस्तु असदित्यर्थः ततः कथमनित्यं-कथं सदिति भावः ? । अथानित्यं कथमनात्मकमिति ? । तत्त्वतो वास्तवो विरोधः । कथं
चेत्यादि । कथं च बुद्धधर्मसङ्घलक्षणे, महारत्नत्रये सतीति योगः । किंवि२० शिष्ट इत्याह-परमनिवृत्तिहेतौ सत्त्वानां दोषकलङ्करहिते, विष्कम्भणप्रहाणादिना रागादिरहित इत्यर्थः । वचनमार्गकुशलस्य वक्तुः तदपायभीरो:वचनापायभीरोरपास्ताशङ्कमिति क्रियाविशेषणं इदं वक्तुमुचितं कथं यदुत सर्वमेवाशुचि सर्वमेव दुःखमिति ?। कथमनुचितमेतदित्याह-तैदाशातनापत्तेः-रत्नत्रयाशातनापत्तेः । आपत्तिश्च असदभिधानात् असद्रत्नत्रयस्याशुच्यादि। २५ इत्थं चैतदङ्गीकर्तव्यमित्याह-अन्यथा रत्नत्रयायोगः। कथमित्याह-तदन्या
शुच्याद्यविशेषाद रत्नत्रयस्य । 'आदि'शब्दाद् दुःखपरिग्रहः । योगे वा रत्नत्रयस्याशुचाद्यविशेषेऽपि किमित्याह-अतिप्रसङ्ग इति ॥ • एवं चेत्यादि । एवं च कृत्वा तथा तदात्माङ्गनेत्यादि यावत् तत्पूर्विकैवानुरागविषयोपरोधिनि प्रतिहतिद्वैष इति कृत्वेति यदुक्तं मूलपूर्वपक्षे . १ 'शुच्यादविशेषात्' इति ग-पाठोऽशुद्धः । २ 'योगे चाति०' इति ग-पाठः। ३ प्रथमे खण्डे २७तमे पृष्ठे २८तमे च। ४ 'निर्वृतिहेतौ' इति ङ-पाठः । ५ तथा तदासा(शा)तना.' इति ऊ-पाठः। ६ प्रथमे खण्डे २७तमे पृष्ठे २८तमे च ।