________________
स्वोपज्ञव्याख्यामुनिचन्द्रीयविवरणयुतम्
( मूलम् )
स्वसंविनेष्यते, तत्तथाभावापत्तेरिति न विपश्चितस्तथा विरोधिधर्माभिधानं वैपश्चित्याविरोधि, तत्तथाऽभावे सकलव्यवहाराभावप्रसङ्गात्, अप्रमेयत्वेन स्वलक्षणेषु प्रमाणाप्रवृत्तेः भ्रान्तौ च स्वसं- ५ विदभावप्रसङ्गादिति ॥
अधिकारः ]
२०७
न चैतदात्माऽङ्गना- भवन-मणि-कनक-धन-धान्यादिकमनात्मकमनित्यमशुचि दुःखमेव, अन्वयस्यैवात्मत्वात् तस्य च व्यवस्थापितत्वात् । एवं नानित्यमेव, तदतादवस्थ्यात्, अन्यथा तदनुपपत्तेः । एवं नाशुच्येव, शुचिपरिणामभावात्, लोके तथोपलब्धेः । एवं न १० दुःखमेव, मुक्तिसुखजनकत्वात्, पारम्पर्येण तत्स्वभावत्वादिति ॥ किञ्चानात्मकं शून्यमसदित्यभिन्नोऽर्थः, अनित्यमस्थिरं सदिति ( स्वो० व्या० )
तेषां स्वलक्षणादीनां तथाभावापत्तेः - प्रमेयादिभावापत्तेः । इति एवं न विपश्चितःपेण्डितस्य ते तथा-तेन प्रकारेण विरोधिधर्माभिधानं वैपश्चित्त्याविरोधि - १५ पाण्डित्याविरोधि, किन्तु विरोध्येव तत्तथाऽभावे तेषां स्वलक्षणादीनां तथाऽभावेसाधारणप्रमेयतादिरूपेणाभावे । किमित्याह - सकलव्यवहारा भावप्रसङ्गात् । एनमेव दर्शयति अप्रमेयत्वेनेत्यादिना | साधारणप्रमेयताऽभावेऽप्रमेयत्वेन हेतुना स्वलक्षणेषु - परपरिकल्पितेषु प्रमाणाप्रवृत्तेः कारणात् तथा भ्रान्तौ च विकल्पामिकायां स्वसंविदोऽभावप्रसङ्गात् सकलसंव्यवहाराभाव इति भावनीयम् ॥ २०
न चैतदित्यादि । न चैतदात्माऽङ्गना भवन- मणि- कनक-धन-धान्यादिकं वस्तु अनात्मकमनित्यमशुचि दुःखमेव - एकान्तेनैव । कुत इत्याहअन्वयस्यैवात्मत्वात्, तस्य च - अन्वयस्य व्यवस्थापितत्वात् । एवं नानित्यमेव - एकान्तेन । कुत इत्याह- तदतादवस्थ्यात्, अन्यथा तदनुपपत्ते:अतादवस्थ्यानुपपत्तेः तुच्छाभावत्वेन भावितमेतत् । एवं नाशुच्येव - एकान्तेन २५ शुचिपरिणामभावात् । भावश्च लोके तथोपलब्धेः जलशुचिकरणेन । एवं न दुःखमेव - एकान्तेन वस्तु । कुत इत्याह- मुक्तिसुखजनकत्वात् । जनकत्वं च पारम्पर्येण तत्स्वभावत्वात् - मुक्तिसुखजनकस्वभावत्वात् ॥
अभ्युच्चयमाह किञ्चेत्यादिना । किञ्च अनात्मकं शून्यमसदित्य भिन्नोऽर्थः,
१ ' तदनुत्पत्तेः' इति ग-पाठः । २ 'पण्डितस्य तथा' इति ङ-पाठः । ३ 'सकललोकव्यव" इति क-पाठः ।