________________
अनेकान्तजयपताकाख्यं प्रकरणम्
[ षष्ठः (मूलम् ) खेकान्तनित्यमस्माभिरात्मादि वस्त्विष्यते । किं तर्हि ? कथञ्चित् । यथा चास्य नित्यानित्यता तथोक्तमेव । नित्यानित्य एव ग्राह्यग्राहक५ भावस्खकृतकर्मफल भोगादयो युज्यन्ते, कथञ्चिदवस्थितत्वात्, तस्यैव तथावृत्तः, अनुभवसिद्धत्वात्, अतो विरोधिधर्माध्यासितस्वरूप एवं वस्तुन्यनेकान्तवादिन एव सकलव्यवहारसिद्धिः, पीडानिर्वेदमार्गज्ञानभावनादीनामपि कथञ्चिदेकाधिकरणत्वेन मुत्तयुपपत्तेरिति। न चानुभवसिद्धवस्तुतथाभावे विरोधिधर्माध्यासितस्वरूपाभिधानं • न्याय्यम्, अतथाभावे तदभावप्रसङ्गतो विरोधासिद्धेरिति निदर्शितं प्राक् । न च परैरपि स्वलक्षणेषु साधारणा प्रमेयता भ्रान्तौ वाऽभ्रान्ता
(स्वो० व्या०) एतदपि-पूर्वपक्षोक्तं न न:--अस्माकं क्षतिमावहति । कुत इत्याह अनभ्युपगमात् । एनमेवाह न हीत्यादिना । न यस्मादेकान्तनित्यमस्माभिः-जनैः १५ आत्मादि वस्त्विष्यते । किं तर्हि ? कथञ्चित् नित्यम् , नित्यानित्यमित्यर्थः।
यथा चास्य-वस्तुनो नित्यानित्यता तथा चोक्तमेव प्राक् । एवं नित्यानित्य एव आत्मादिवस्तुनि ग्राह्य ग्राहकभावश्च स्वकृतकर्मफलप्रत्युपभोगादयश्चेति विग्रहः युज्यन्ते-घटन्ते । कथमित्याह-कथञ्चिदवस्थितत्वात् कारणात् । कथञ्चिदवस्थितत्वं च तस्यैव-ग्राह्यादेः तथावृत्तेः-विशिष्टग्राह्यादि२० रूपेण वर्तनात् अनुभवसिद्धत्वात् कारणादिति । अतो विरुद्धधर्माध्यासित
खरूप एव वस्तुनि शब्दवृत्त्या अनेकान्तवादिन एव-वादिन एव सकलव्यवहारसिद्धिः, पीडानिर्वेदमार्गज्ञानभावनादीनामपि-व्यवहारभेदानां कथञ्चिदेकाधिकरणत्वेन हेतुना मुक्त्युपपत्तेरिति । न चेत्यादि । न च-नैव
अनुभवसिद्धश्चासौ वस्तुतथाभावश्च-सदसद्पादिभावश्चेति विग्रहः, तस्मिन् २५ सति विरोधिधर्माध्यासितस्वरूपाभिधानं न्याय्यं वस्तुनो न च । कुत इत्याह-अतथाभाव इत्यादि । अतथाभावे-असदसद्रूपादिभावे तदभावप्रसगतः-वस्त्वभावप्रसङ्गतः विरोधासिद्धरिति-एवं निदर्शितं प्राकन चेत्यादि। न च परैरपि-बौद्धैः स्वलक्षणेषु-स्वाभ्युपगतेषु वस्तुषु साधारणा प्रमेयता तथा भ्रान्तौ वाऽभ्रान्ता खसंविन्नेष्यते, किन्त्विष्यत एव, तत्तथाभावापत्तेः
१ यथास्य नित्या.' इति ग-पाठः । २ 'ग्राहकखभावखकृत०' इति ग-पाठः । ३ 'तथा प्रवृत्तेः' इति ग-पाठः। ४ "किञ्चिदेकाधि.' इति ग-पाठः। ५'प्रसङ्गात् विरोधा' इति क-पाठः । ६'भावे सद' इति क-पाठः। ७ 'भ्रान्ता संवि०' इति क-पाठः।