________________
२०५
अधिकारः] खोपज्ञव्याख्यामुनिचन्द्रीयविवरणयुतम् २०५
(मूलम् ) तदेकखभावत्वात् ग्राहकभेदायोगादिति,अतः 'तद्वशेन पश्चाद् व्यवस्थाप्यते" इत्यप्यपाटवाभावादुक्तवत् तदयोगादिति। 'विकारदर्शनेनेव विषमज्ञैः' इत्यसुन्दरं ज्ञातम्, तत्र प्राक् सर्वथा मारणात्मक-५ शक्त्यभावात्, समग्रभावे विकारदर्शनात्, असमग्राया अदर्शनात्, तद्वत् तदितरत्र तथानिश्चयाभावादित्यन्वयिन्येव तथाऽसमानोपलब्ध्यां तत्क्षयेक्षणमित्यलं प्रसङ्गेन ॥
यचोक्तम्-'अन्यथाऽऽत्मनो व्यवस्थितत्वाद् वेदनाऽभावाद् भावे अपि विकारान्तराभावात् प्रतिपक्षाभ्यासेनाप्यनाधेयातिशयत्वाच १० मुत्त्यसम्भवः' इत्येतदपि न नःक्षतिमावहति, अनभ्युपगमात् । न
(स्वो० व्या०) दित्यपि पूर्वोक्तं तदेकखभावत्वात् तस्य-वस्तुन एकस्वभावत्वात् कारणात् ग्राहकभेदायोगादित्यनालोचिताभिधानमेव । अतस्तद्वशेन पश्चाद् व्यवस्थाप्यत इत्यपि किमित्याह-अपाटवाभावात् हेतोः उक्तवत्-यथोक्तम् । ३५ एकस्वभावत्वादिति तथा तदयोगादिति-पाटवाभावायोगादिति क्रिया पूर्ववत् । विकारदर्शनेनेव विषमरित्यसुन्दरं ज्ञातम्-उदाहरणम् । कथमित्याहतत्रेत्यादि । तत्र-विषे प्राक् सर्वथा-फलकरणरूपेणापि मारणात्मकशक्त्यभावात् अभावश्च समग्रभावे भक्षणे सति विकारदर्शनात्-वमनादिदर्शनात् , असमग्राया:-शक्तेः केवलविषगताया अदर्शनात्। एतदेवाह तद्वदित्यादिना । २० तद्वत्-समग्रभाव इव तदितरत्र-असमग्रायां तथा-फलकरणरूपेण निश्चयाभावात् । इति-एवमन्वयिन्येव तथा तेन प्रकारेण पूर्वाभावात्मकत्वलक्षणेन असमानोपलब्ध्यां विजातीयोपलब्ध्या हेतुभूतया (तत्)क्षयेक्षणम्-अन्तक्षयेक्षणं नान्यथा इत्यलं प्रसङ्गेन ॥
यचोक्तमित्यादि । यच्चोक्तं मूलपूर्वपक्षे-अन्यथाऽऽत्मनो व्यवस्थितत्वात् २५ कारणात् वेदनाऽभावात् भावेऽपि विकारान्तराभावात् नित्यतया प्रतिपक्षाभ्यासेनापि। किमित्याह-अनाधेयातिशयत्वाच मुत्त्यसम्भव इति,
(विवरणम्) (१८) फलकरणरूपेणापीति । प्रागवस्थायां हि विषे भवतां मते फलकरणरूपेणापि इदं विषं भक्षितं सत् मारयिष्यतीत्येवंलक्षणेन मारणात्मशक्तेरभावः ॥ .
१ तदेकत्वस्वभाव.' इति क-पाठः। २ द्रष्टव्यं २०४तम पृष्ठम् । ३ सर्वथा 'साधारणा.' इतिक-पाठश्चिन्त्यः । ४ 'तथा तथा समानोप.' इति क-पाठ: ग-पाठस्त 'तथा इति। ५ १३६तमे पृष्ठे। ६ 'दर्शनेन विष०' इति ङ-पाठः। ७ 'धारणा.' इति क-पाठः। ८ 'तदितरत्रापि समनाय(यां) तथा' इति -पाठः। ९ १३६तमे पृष्ठे ।