________________
२०४ अनेकान्तजयपताकाख्यं प्रकरणम् [षष्ठः
(मूलम् ) व्यवस्यन्ति, न प्राग दर्शनेऽपि, पाटवाभावादिति तद्वशेन पश्चाद् व्यवस्थाप्यते "विकारदर्शनेनेव विषमज्ञैः” इति वचनात् । इह ५ भाव एव क्षणस्थायी नाशः, न तन्निवृत्त्यात्मकोऽन्यः, तस्य अन्यधर्मत्वानभ्युपगमात्, अभ्युपगमे च तस्यान्वयापत्तिा, तदनिवृत्तेरिव तन्निवृत्तेर्भावस्वभावत्वेन तस्यैव तथाभवनादिति । यच्च इदमुक्तम्-'तमस्य मन्दाः स्वभावमूर्द्ध व्यवस्यन्ति' तदयुक्तम् ,
ऊर्द्ध तदभावात् तस्यैव तत्त्वाध्यवसायायोगात्, निर्विषयत्वात् । १० ततश्चैतदप्यनालोचिताभिधानमेव 'न प्राग दर्शनेऽपि', दर्शनस्यैव व्यवसायत्वात्, तद्याथात्म्यप्रतिभासनात्, 'पाटवाभावात्' इत्यपि
(स्त्रो० व्या०) स एव क्षणस्थायी जातः पदार्थ इति तमस्य मन्दा:-जडाः खभावंक्षणस्थायित्वलक्षणं स्वभावमूर्ध्व व्यवस्यन्ति क्षणात् , न प्राक्-क्षणकाल एव १५ दर्शनेऽपि सति । कुत इत्याह-पाटवाभावात् । इति-एवं तद्वशेन-मन्दव्यवसायवशेन पश्चाद् व्यवस्थाप्यतेऽसौ स्वभावः । निदर्शनमाह-विकारदर्शनेनेव-वमनादिना विषमज्ञैः पुरुषैः पश्चाद् व्यवस्थाप्यते, अन्यथा तत् प्रागपि विषमेव इति वचनात् तत्त्याग एव । इहैव भावार्थमाह इहेत्यादिना । इह-भवद्दर्शने भाव एव क्षणस्थायी नाशो वर्तते, न तन्निवृत्त्यात्मकोऽन्यो २० नाशः । कुत इत्याह-तस्य अनिवृत्तेः अन्यधर्मत्वानभ्युपगमात्, विजातीयधर्मत्वानभ्युपगमादित्यर्थः । अभ्युपगमे च तस्य-अन्यधर्मत्वस्य किमित्याहअन्वयापत्तिः कथमित्याह-तदनिवृत्तेरिव-पूर्वाभावानिवृत्तेरिव तन्निवृत्तेःअधिकृतभावनिवृत्तेः भावस्वभावत्वेन हेतुना विजातीयधर्मत्वाभ्युपगमे तस्यैव तथाभवनादिति अन्वयापत्तिः । एवं गुणोऽसद्दर्शनत्यागादिति । यच्चेदमुक्त२५ मिहैव-'तमस्य मन्दाः स्वभावमूर्द्ध व्यवस्यन्ति' तयुक्तम् । कथमित्याह-ऊर्द्ध तदभावात्-अधिकृतभावाभावात् तस्यैव यस्योद्धमभावः तत्त्वाध्यवसायायोगात् तद्भावस्तत्त्वं तदध्यवसायायोगात् । अयोगश्च निर्विषयत्वात् ऊर्द्ध तदभावेन । यदा चैवं ततश्चैतदप्यनालोचिताभिधानमेव न प्राग दर्शनेऽपीति । कथमित्याह-दर्शनस्यैव व्यवसायत्वात् कारणात् । ३० एतदेव द्रढयन्नाह-तद्याथात्म्यप्रतिभासनादू दर्शन एव । एवं पाटवाभावा
१ वावस्यन्ति' इति ग-पाठः । २ २०३तमे पृष्ठे २०४तमे च । ३ 'दर्शनेन वमना.' इति ङपाठः। ४ 'तस्यानिवृत्ते वृत्तेः' इति ङ-पाठः। ५ द्रष्टव्यं २०३तम पृष्ठम् । ६ २०३तमे पृष्ठे
२०४ तमे च।