________________
स्वोपज्ञव्याख्यामुनिचन्द्रीय विवरणयुतम्
(मूलम् )
aari क्षयो नाम ? ननु विनाशः । कथमस्येक्षणं स्यात् ? । भावे को दोष: ? । इन्द्रियस्य तुच्छेऽप्रवृत्तिः । न वै स तुच्छः । ननु किमन्तेक्षणेन ? स विजातीयस्तस्य नाशत्वेऽन्वयः । स पूर्वाभावः । ५ नान्येक्षणे तदीक्षणम्, तत एव तत् । कथं प्रतिबन्धाभावे ? | सत्तत्वाभाव्यात् न तस्यैकान्ततुच्छत्वम् । ततः किमिति ? | तदतदात्मको नाशः, के एवं दोषः १ । गुणः, असद्दर्शनत्यागात् । कथं तत्त्यागः ? । " न विनाशो नामान्य एव कश्चिद् भावात् ” | स्वभाव एव हि नाशः, स एव क्षणस्थायी जात इति तमस्य मन्दाः खभावमूर्द्ध ( खो० व्या० )
अभ्युच्चयमाह कश्चायमित्यादिना । कश्चायं क्षयो नाम इति वाच्यम् । पर आह- ननु विनाशः क्षयः । एतदाशङ्कयाह- कथमस्य - विनाशस्य ईक्षणं- दर्शनं स्यात् ? । पर आह- भावे को दोषः विनाशेक्षणस्य ? । एतदाशङ्कयाहइन्द्रियस्य चक्षुषस्तुच्छे विनाशे अप्रवृत्तिः, तुच्छत्वादेव । पर आह- न चैष १५ तुच्छो विनाशः । एतदाशङ्कयाह - नैनु किमन्तेक्षणेनातुच्छस्यानन्तेऽपि दर्शनादित्यभिप्रायः । पर आह-स विजातीयः कपालादेरनन्तजस्तु सजातीयः । एतदाशाह - तस्य नाशस्वे अपि विजातीयस्य कपालादेः । किमित्याह - अन्वयो भावाँविच्छेदादिति गर्भः । पर आह-स पूर्वाभावो नाशः । एतदाशङ्कयाह- नान्येक्षणे-कपालादिदर्शने तदीक्षणं - पूर्वाभावदर्शनम् | पर आह-तत एव तत्- २० विजातीयदर्शनादेव पूर्वाभावस्य दर्शनम् । एतदाशङ्कयाह- कथं प्रतिबन्धाभावे ? विजातीयपूर्वाभावयोरिति प्रक्रमः । पर आह-तत्तत्वाभाव्यात्-विजातीय पूर्वाभावयोः तत्स्वभावत्वात् । एतदाशङ्कयाह-न तस्यैकान्ततुच्छत्वं पूर्वाभावस्य । पर आह- ततः किमिति यदि नामैवम् । एतदाशङ्क्याह-न विनाशो नामान्य एव, तदतदात्मको नाशः विजातीय पूर्वाभावात्मकः । अन्यथैकान्ततुच्छतया २५ स्वभावासिद्धिः पूर्वाभावस्येत्यभिप्रायः । पर आह के एवं दोषः तदतदात्मकत्वे ? । एतदाशङ्क्याह-गुणः असद्दर्शनत्यागान्न तु दोषः । पर आह-कथं तत्त्याग:असद्दर्शनत्यागः १ । एतदाशायाह - " न विनाशो नामान्य एव कश्चिद् भावात्" इति वचनादिति योगः । स्वभाव एव हि नाशः, पदार्थ एवेत्यर्थः । १' न तु विनाशः' इति क-पाठः । २ 'तुच्छे प्रवृत्तिः' इति ग-पाठः । ३ ' न चैव स तुच्छ ः ' इति ग-पाठः, टीकाधारेण तु 'न चैष तुच्छः' इति पाठो भाति । ४ 'स एवं दोष:' इति ग-पाठः; क - पाठस्तु 'क एव दोषः' इति । ५ 'न तु' इति क-पाठः । ६ ' नश्यनाश्यत्वे' इति कपाठः । ७ 'भावाविच्छेद इति' इति क पाठः । ८ 'सामान्य एव' इति ङ-पाठः । ९ 'क एदं (?) दोषः' इति ङ-पाठः ।
अधिकारः ]
२०३
१०