________________
२०२ अनेकान्सजयपताकाख्यं प्रकरणम्
[षष्ठः (मूलम् ) प्रतीत्यनुग्रहादित्यन्वयिन्येव संयोगोपचयात् परिणामसिद्धिः ।
अन्तक्षयेक्षणमप्यतत्स्वभावस्य वस्तुनस्तदभावात् न क्षणिकत्व५साधनम् । प्रतिक्षणं तत् तत्स्वभावमिति चेत्, कथमन्तवत् तदनुपलम्भः ? । सादृश्यविप्रलम्भादिति चेत्, उभयाग्रहे क एतद् घेद ? न च तयोस्तत्त्वेऽन्यतरग्रहणेऽप्यदोषः, तत्तत्त्वाप्रतीतेः । न च कथश्चिदेकेनैवोभयग्रहणम् , अनभ्युपगमात् ॥
(खो० व्या०) १० मृत्पिण्डातादवस्थ्यात् अन्यथा तदसिद्धेः-अभवनभवनमात्रापत्त्या अतादवस्थ्या. सिद्धेः वस्तुधर्मत्वादतादवस्थ्यस्य निबन्धनोपपत्तेः वस्तुधर्मत्व एव । एनामेवाह-प्रतीत्यनुग्रहात् तत्रातादवस्थ्यसंवित्त्या । इति-एवमन्वयिन्येव वस्तुनि संयोगोपचयात् कारणात् परिणामसिद्धिः अन्यथोक्तवदयोगादिति । अन्त
क्षयेक्षणमपि परोपन्यस्तं क्षणिकत्वसाधनं किमित्याह-अतत्वभावस्य१५ अनन्तक्षयेक्षणखभावस्य वस्तुनः-घटादेः तदभावात् , अनन्तक्षयेक्षणाभावात् । किमित्याह-न क्षणिकत्वसाधनं प्रत्युत तावत्कालस्थितिस्वभावसाधनमिति । प्रतिक्षणं-क्षणं क्षणं प्रति तत्-वस्तु तत्स्वभावं, प्रक्रमात् क्षयेक्षणस्वभावम् । इति चेत्, एतदाशङ्याह-कथमन्तवत्-यथाऽन्ते तथा तदनुपलम्भ:प्रतिक्षणं क्षयेक्षणानुपलम्भः? । सादृश्यविप्रलम्भात्। इति चेत् 'मायागोलक'२० न्यायेन, एतदाशयाह-उभयाग्रहे, तदन्याग्रह इत्यर्थः । क एतत्-सादृश्यं वेद-जानाति ? । न चेत्यादि । न च तयोः-तदन्ययोः तत्त्वे-वस्तुस्थित्या सदृशत्वे सति अन्यतरग्रहणेऽपि, एकग्रहणेऽपीत्यर्थः, अदोषो न चानन्तरो. दितः, किन्तु दोष एव । कुत इत्साह-तत्तत्त्वाप्रतीतेः तयोः-तदन्ययोः तत्त्वा
प्रतीतेः-वास्तवसदृशत्वाप्रतीतेः । वास्तवसदृशत्वाप्रतीतिरुभयाग्रहादेवेति भावनीयम् । २५ न चेत्यादि । न च कथञ्चित्-केनचित् प्रकारेण एकेनैव, ग्राहकेणेति प्रक्रमः, उभयग्रहणं तदन्यग्रहणमिति भावः । कुत इत्याह-अनभ्युपगमात् ।
"एकमर्थं विजानाति नो विज्ञानद्वयं यथा ।
विजानाति न विज्ञानमेकमर्थद्वयं तथा ॥ इति वचनादनभ्युपगमः ॥
१ 'वानन्तरो' इति क-पाठः। २ 'तथाप्रतीतेः' इति ङ-पाठः । ३ 'जानाति न विज्ञान.' इति ऊ-पाठः। ४ अनुष्टुप् ।