SearchBrowseAboutContactDonate
Page Preview
Page 332
Loading...
Download File
Download File
Page Text
________________ १० अधिकारः] खोपज्ञव्याख्यामुनिचन्द्रीयविवरणयुतम् (मूलम्) भावाभ्युपगमादिति चेत्, कस्यासत एव भावाभ्युपगमः । तत्तथाभवने संस्थानादेरिति चेत्, न हि तन्न तद्धर्म इति नासदेव, तस्यापि भावे कारणवत् तदा सिद्ध्यादिसङ्ग इति चेत्, तथावभावत्वेन ५ अस्यायमदोषः। कथमिति न सम्यगवगच्छाम इति चेत्, तस्यैवासी खभावो येनान्यदा तसिद्धयादीति । न चैतावता सर्वथाऽसद्भवनम् , तदनुवेधासिद्धेः, तदपेक्षायोगात् , तत्तद्भावोपलब्धेः, तदतादवस्थ्यात्, अन्यथा तदसिद्धेः, वस्तुधर्मत्वात् निवन्धनोपपत्तेः (स्वो० व्या०) परिणामासिद्धिरिति, “तद्भावः परिणामः" इति न्यायात् । नासिद्धिः परिणामस्य असतोऽपि भवद्भिरपि भावाभ्युपगमात् । इति चेत्, एतदाशङ्कयाह-कस्यासत एव अस्माकं भावाभ्युपगमः ? । तत्तथाभवने-अधिकृतमृत्पिण्डस्य विवक्षितघटत्वेन भवने संस्थानादेः-ऊर्ध्वाद्यर्थक्रियाशक्त्यादेः । इति चेत्, एतदाशयाह-न हि तत्-संस्थानादि न तद्धर्म:-अधिकृतमृत्पिण्डधर्मः, किन्तु १५ तद्धर्म एव । इति-एवं नासदेव-संस्थानाघेकान्तेन तस्यापि भावे संस्थानादेः कारणवत्-अधिकृतमृत्पिण्डवत् तदा-मृत्पिण्डकाल एव सिद्ध्यादिसङ्ग:उपलब्ध्यर्थक्रियासङ्गः। इति चेत्, एतदाशझ्याह-तथास्वभावत्वेन-अन्यदा कारणस्वभावत्वेन अस्य-मृत्पिण्डस्य अयमदोषः तदा सिद्ध्यादिसङ्गलक्षणः । कथं-केन प्रकारेणेत्येतदेव न सम्यगवगच्छामः?। इति चेत्, एतदाशङ्कयाह- २० तस्यैवासी स्वभावोऽधिकृतमृत्पिण्डस्य येन-स्वभावेन अन्यदा-अनन्तरसमये तत्सिद्ध्यादि-संस्थानाधुपलब्ध्यादि इति । इहैवोपचयमाह न चेत्यादिना। न चैतावताऽन्यदा तत्सिद्भ्यादिभावेन सर्वथा-एकान्तेन असद्भवनं संस्थानादेः । कुत इत्याह-तदनुवेधासिद्धेः-असदनुवेधानुपलब्धेः संस्थानादौ तथा तदपेक्षायोगात्-अधिकृतमृत्पिण्डापेक्षायोगात्, सर्वथाऽसद्भवने न तथा २५ तत्तदावोपलब्धेः-संस्थानादौ मृद्भावोपलब्धेः तदतादवस्थ्यात्-अधिकृत (विवरणम्) (१४) ऊर्ध्वाद्यर्थक्रियाशक्त्यादेरिति । अर्द्धादिसंस्थानमर्थक्रियाशक्तिश्च जलाथाहरणाविसामर्थ्यलक्षणा मृत्पिण्डे पूर्वमविद्यमानैव घटादावुत्पन्नेति ॥ (१८-१९) अन्यदा कारणस्वभावत्वेनेति । मृत्पिण्डस्यैवायं स्वभावो यदुत ३० अन्यदा-घटकाले संस्थानादेः कारणतां प्रतिपद्यते ॥ , सिख्यादीनि' इति क-पाठः। २ तत्त्वार्थाधिगमसूत्रे (अ० ५, सू. ४१)। ३ 'तदेवं न इतिहु-पाठः। भमेकान्त. २६
SR No.008406
Book TitleAnekantajay patakakhyam Prakaranam Part 2
Original Sutra AuthorHaribhadrasuri
AuthorMunichandrasuri
PublisherOriental Research Institute Vadodra
Publication Year1947
Total Pages503
LanguageSanskrit, English
ClassificationBook_Devnagari & Philosophy
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy