________________
अनेकान्तजयपताकाख्यं प्रकरणम्
[षष्ठः
कथं तथाप्रतीतिरिति चेत् पिण्ड-घटयोzत्त्वदर्शनात्, अन्वयरहितेऽपि तदस्त्येवेति चेत्, कास्तीति सुविचार्य वक्तव्यम्, तत्कायें घटान्तर इति चेत्, न तद्वत् तदहेतुकं तदिति चिन्त्यम् । तद्धतुकत्वेऽपि भेदोऽविशिष्ट इति चेत्, कथमविशेषे परिणामादिविशेषः । अस्ति चायं नियमेन, अतस्तस्यैव तथाभवनात् तत्परिणामजात्युपपत्तेः अविगानेन दर्शनात् तथातव्यवहारसिद्धः दर्शनस्थाभ्रान्तत्वात्, अन्यथा तदनुपपत्तेः, तन्नियमवन्निमित्ता• भावात् तत्तथाभावाभावे च तदसिद्धिरिति । नासिद्धिः असतोऽपि
(खो० व्या०) न्वयनाशयोगतः तेषां च-हेतुधर्माणामुपलम्भात् । कार्ये उपलम्भश्च तथा हेतुधर्मान्वयत्वेन प्रतीतेरिति । कथं तथाप्रतीतिः? । इति चेत्, एतदाशयाहपिण्ड-घटयोzत्त्वदर्शनात् । अन्वयरहितेऽपि वस्तुनि तत्-मृत्त्वदर्शनम५स्त्येव । इति चेत्, एतदाशक्याह-कास्तीति-एवं सुविचार्य वक्तव्यम् ।
तत्कायें-विवक्षितपिण्डकायै घटान्तरे । इति चेत्, एतदाशयाह-न, तद्वत्घटान्तरवत् तदहेतुकं-विवक्षितपिण्डाहेतुकं तत्-विवक्षितघटाख्यं कार्यमिति चिन्त्यमेतत् । तद्धेतुकत्वेऽपि-विवक्षितपिण्डहेतुकत्वेऽपि विवक्षितघटाख्यकार्य, स्पेति प्रक्रमः । किमित्याह-भेदोऽविशिष्ट इति चेत् तयोः पिण्ड-घटयोरिति । २० एतदाशङ्कयाह-कथमविशेषेऽधिकृतपिण्डघटयोर्भेदस्य परिणामादिविशेषः । 'आदि'शब्दाद् वर्णमहणत्वादिग्रहः । अस्ति चायं-परिणामादिविशेषो नियमेन । अतस्तस्यैव तथा भवनात् कारणात्-अधिकृतमृत्पिण्डस्य विवक्षितघटत्वेन भवनात् । भवनं च तत्परिणामजात्युपपत्तेः, विवक्षितघट इति प्रक्रमः । उपपत्तिश्च अविगानेन दर्शनात् तत्परिणामजात्योः तथातव्यव२५हारसिद्धेः-अविगानदर्शनेन तत्परिणामजातिव्यवहारसिद्धेः । एवं दर्शनस्या
भ्रान्तत्वात् तत्परिणामजातिगोचरस्य । इत्थं चैतदङ्गीकर्तव्यमित्याह-अन्यथा तदनुपपत्तेः तस्यैव तथाभवनमन्तरेण विवक्षितघटानुपपत्तेः । अनुपपत्तिश्च तन्नियमवन्निमित्ताभावात्-तत्परिणामजातिनियमवन्निमित्ताभावात् । सर्वोपसंहारार्थमाह-तत्तथाभावाभावे च तदसिद्धिरिति तस्यैव तथाभावाभावे च
१ तदास्त्येवेति' इति ग-पाठः। २ 'तदकाय इति ग-पाठः। ३ 'भेदो विशिष्ट इति' इति ग-पाठः । ४ 'तदसिद्धेरिति' इति ग-पाठः। ५ 'भेदो विशिष्ट' इति उ-पाठः । ६ 'वर्णमश्रुण' इति कु-पाठः। ७ 'सत् तथाः' इति ऊ-पाठः । ८ 'तदसिद्धेरिवि' इति अ-पाठः ।