________________
अधिकारः]
स्वोपनव्याख्यामुनिचन्द्रीयविवरणयुतम्
१९९
अवस्तुतेत्यन्वयिन्येवार्थक्रियासिद्धिः तस्यैव, तथाऽभवनात् । क्रमयोगपद्यसाध्यानां क्रमयोगपद्याभ्यामेव करणात्, तथाखभावत्वादिति परिणामोऽपि क्षणक्षयिण्यसङ्गत एव, क्षणानामत्यन्तभेदात्, ५ वृद्ध्यनुपपत्तेः सहकारिणोऽयोगात् अणोर्महद्भावासिद्धेः, अतिप्रसङ्गात् , 'हेतुधर्मान्वयानुपपत्तेः तेषां चोपलम्भात्, तथाप्रतीतेरिति ।
(खो व्या०) माने अधिकृतभूतेः । किमित्याह-तव्यतिरिक्तरादिदोषः तस्या भूतेस्तत्स्वभावद्वयं व्यतिरिक्तमव्यतिरिक्तं व्यतिरिक्ताव्यतिरिक्तं वा स्यात् । व्यतिरिक्तत्वे ।। तस्येति सङ्गायोगः । अव्यतिरिक्तत्वे तत्स्वभावैकत्वादि, व्यतिरिक्तत्वाव्यतिरिक्तत्वे विरोधः, वस्त्वविरोधेऽप्युपगमविरोध इति दोषः । दोषान्तरमाह-अनुभयखभावत्वे भूतेः । किमित्याह-अवस्तुता, न ह्यनुभयखभावं नाम वस्तु इतिएवमन्वयिन्येव वस्तुनि । किमित्याह-अर्थक्रियासिद्धिः तस्यैव-अन्वयिनो वस्तुनः। किमित्याह-तथा-अर्थक्रियारूपेण अभवनात् परिणाम-निमित्ताभ्यामिति ।।५ क्रमेत्यादि । क्रमयोगपद्यसाध्यानामर्थक्रियाणां क्रम-योगपद्याभ्यामेव करणात् । करणं च तथाखभावत्वादिति-क्रम-योगपद्याभ्यामेवार्थक्रियाकरणखभावत्वादिति क्रमेण पारमितापूरणाद् बुद्धत्वं योगपद्येन प्रदानकुशलचित्तप्रणिधानादिविकल्पान्तरमधिकृत्याह-परिणामोऽपि क्षणक्षयिणि भावे । किमित्याहअसङ्गत एव । कुत इत्याह-क्षणानामत्यन्तभेदात् कारणात् । किमित्याह-२० वृद्ध्यनुपपत्तेः तथाविधात् तथाविधभावेन तथा सहकारिणोऽयोगात् उक्तनीत्यैव अणोः सकाशात् महद्भावासिद्धेः, महतो भावो महद्भावः तदसिद्धेरिति । असिद्धिश्च अतिप्रसङ्गात् । अतिप्रसङ्गश्च हेतुधर्मान्वयानुपपत्तेः निर
(विवरणम्) (१५) परिणाम-निमित्ताभ्यामिति । परिणामश्च प्रतिक्षणं मृदादेः खयमेवापरा-२५ परावस्थाप्रतिपत्तिरूपम् , निमित्तं च कुलालचक्रचीवरादि, ताभ्यां कृत्वाऽन्वयिन्येनि एवार्थक्रियासिद्धिः ॥
(१८) क्रमेण पारमितापूरणाद् बुद्धत्वमिति । बुद्धस्य दानपारमिता क्रमेण पूर्यते, न हि योगपद्येनासौ सर्वं दातुं सह इति ॥
(१८-१९) यौगपद्येन प्रदानकुशलचित्तप्रणिधानादीति । प्रदानं कुशलचित्त-३. प्रणिधानं च योगपद्येन भवतः । तथाहि-यस्मिन्नेव समयेऽसौ दत्ते तस्मिन्नेव कुशलं चित्तमाधत्ते इति ॥
१ 'कारिणो योगात्' इति क-पाठः। २ हेतुकर्मान्वया० इति ग-पाठः । ३ 'रूपेण भवनातू' इति इ-पाठः। ४ 'वृत्त्यनुप०' इति क-पाठः। ५ 'कारिणा योगा०' इति -पाठः।