________________
१९८
अनेकान्तजयपताकाख्यं प्रकरणम्
[षष्टः
ध्यतिरिक्तमव्यतिरिक्तं वा। यदि व्यतिरिक्तं तस्येति सङ्गायोगः,
अव्यतिरेके न भावान्तरोपयोगिता । तदुत्तरभूतिरेवेयमिति चेत्, ५ न, तस्याः खपुष्पवदसत्वेनामुष्य भूतिरिति व्यवस्थाऽनुपपत्तेः, कर्तृभोक्तृधारेण चायोगात् । तथाहि-सा कर्तृभूतिः स्याद् भोक्तृभूतिर्वा । कर्तृभूतिरिति चेत्, न तर्हि भोक्तृभूतिरित्यभ्युपगमहानिः सर्वक्षणानां भोक्तृत्वाभ्युपगमात् । अथ भोत्कृभूतिः, न तर्हि कर्तृभूतिरित्यभ्युपगमहानिरेव, संसारिक्षणानां प्रायः कर्तृत्वाभ्युपगमात्॥ ० उभयखभावत्वे तद्व्यतिरिक्तरादिदोषः। अनुभयखभावत्वे
(स्वो० व्या०) धिकृत्याह-कथमन्यस्य-भावस्य अन्यत्र-भावान्तरे सामर्थ्यम् ? । तथाहिइदं-सामर्थ्य ततः-विवक्षितभावाद् व्यतिरिक्तमव्यतिरिक्तं वा भवेत् ।
उभयथाऽपि दोषमाह-यदि व्यतिरिक्तं विवक्षितभावात् सामर्थ्यम् , अत्र दोष१५ माह-तस्येति सङ्गायोगः, तदन्वयव्यतिरेकाविशेषात् । अव्यतिरेके त्वभ्युप
गम्यमाने किमित्याह-न भावान्तरोपयोगिता सामर्थ्यस्य, तद्वत् तन्निवृत्तेरिति भावः । तदुत्तरभूतिरेव-विवक्षितभावोत्तरभवनमेव इयमिति चेत् अर्थक्रिया । एतदाशङ्कयाह-न, तस्याः -तदुत्तरभूतेः खपुष्पवत् निरुपादानतया असत्त्वेन हेतुना। अमुकस्य भूतिरिति-एवं व्यवस्थाऽनुपपत्तेः । तथाहि-अत्रासत् २० सद् भवतीति व्यवस्था, न चेयं न्याय्या शक्तिप्रतिनियमाभावेनेति व्यवस्थाऽनुपपत्तिः । उपचयमाह-कर्तृभोक्तद्वारेण चायोगात् ,भूतेरिति प्रक्रमः। तथाहि-सा-भूतिः कर्तृभूतिः स्याद् भोक्तृभूतिर्वा । कर्तृभूतिरिति चेत्-अधिकृता भूतिरित्येतदाशयाह-न, तर्हि भोक्तृभूतिरिति-एवमभ्युपगमहानिरेव । कथमित्याह
सर्वक्षणानां भोक्तृत्वाभ्युपगमात् । अथ भोत्तृभूतिः-अधिकृता भूतिरिति २५ एतदाशयाह-न तर्हि कर्तृभूतिरिति-एवमभ्युपगमहानिरेव । कथमित्याहसंसारिक्षणानां प्रायः चरमक्षणं मुक्त्वा । किमित्याह-कर्तृत्वाभ्युपगमात् ।। पक्षान्तरनिराचिकीर्षयाऽऽह-उभयस्वभावत्वे-कर्तृभोक्तृस्वभावत्वेऽभ्युपगम्य
(विवरणम्) (१५) तदन्वयव्यतिरेकाविशेषादिति । तस्य-विवक्षितस्वभावस्य सम्बन्धिनौ ३. यौ अन्वय-व्यतिरेको तयोरविशेषात् सामर्थ्यस्य । यदि हि विवक्षितभावाद् व्यतिरिक्तमेव सामर्थ्य तदा तद्भावे भावस्तभावे चाभावः तस्य नास्त्येवेत्यर्थः ॥
१ 'संयोगायोगः' इति क-पाठः। २ 'अमुष्य' इति स्यात् । ३ पत्तेः उप०' इति ङ-पाठः ।