________________
अधिकारः]
खोपशव्याख्यामुनिचन्द्रीयविवरणयुतम्
१९७
तस्योक्तदोषानुपपत्तिरेवेत्युक्तप्रायम् । तथा नित्यानित्यदेहभिन्नाभिन्नत्वे चास्य पीडाकर्तृत्वादिना तत्कर्मविपाकभावेऽपि तन्निमित्तत्वनियोगाद् दुष्टानुवन्धतोऽस्यैव हिंसेति सदुपदेशादेः क्लिष्टकर्मवियो-५ गात् शुभभावानुबन्धतोऽस्या विरतिरपीति न कश्चिद् दोष इति ॥
अर्थक्रियासामर्थ्यमपि क्षणिकस्यानुपपन्नमेव, विकल्पायोगात् । अर्थक्रिया हि स एव भावो भावान्तरं वा । यदि स एव कथमस्यात्मनि सामर्थ्यम् ? । अन्यच्चेदं तदात्मा स्यात् स्थितिर्वा । यद्यात्मा न तत्र सामर्थ्यम् , अन्यतो भावात् ;न स्थिती, अनन्तरमेव नाशात् ॥ ___ अथ भावान्तरं कथमन्यस्यान्यत्र सामर्थ्यम् ? । तथाहि-इदं ततो
(खो० व्या०) एव कथञ्चित् केनचित् प्रकारेण कारणनिवृत्तिखभाव:-कारणनिवृत्तिस्वतत्त्वो नाशः तस्य-वादिन उक्तदोषानुपपत्तिरेवेत्युक्तमायं-प्रायेणोक्तम् । अभ्युच्चयमाह तथेत्यादिना । तथा नित्यानित्यदेह भिन्नाभिन्नत्वे चास्य-१५ हिंसकस्य पीडाकर्तृत्वादिना कारणेन तत्कर्मविपाकभावेऽपि, हिंस्यकर्मविपाकभावेऽपीत्यर्थः,तन्निमित्तत्वनियोगात्-हिंसकस्य निमित्तत्वनियोगात् कारणाद् दुष्टानुबन्धतो हेतोः जन्मान्तरासेवितात् अस्यैव हिंसेति एवम्भूतस्यास्य सदुपदेशादेः सकाशात् 'आदि'शब्दात् तथाविधमुनिचर्यादर्शनपरिग्रहः 'क्लिष्टकर्मवियोगात् कारणात् तथास्वाभाव्येन तथा शुभभावानुवन्धतः तथा तथा २० भव्यत्वसमाक्षिप्तात् अस्याः-हिंसाया विरतिरपि । इति-एवं न कश्चिद् दोषः अस्मदभ्युपगम इति ॥ __ अर्थक्रियेत्यादि । अर्थक्रियासामर्थ्यमपि क्षणिकस्य-पदार्थस्य अनुपपन्नमेव । कुत इत्याह-विकल्पायोगात् । एनमेवाह अर्थक्रिया होत्यादिना । अर्थक्रिया यस्मात् स एव भावो भावान्तरं वा भवेत् । किञ्चातः १ उभयथा- २५ ऽपि दोष इत्याह-यदि स एव भावोऽर्थक्रिया, कथमस्य-भावस्य आत्मनि सामर्थ्यम् ? । अन्यच्चेत्यादि । अन्यच्च इदं-सामर्थ्य तदात्मा स्याद् भावात्मैव स्थितिर्वा । यद्यात्मा सामर्थ्यम्, एतदाशङ्याह-न तत्र आत्मनि सामर्थ्यम्, अन्यत:-कारणान्तरात् भावादात्मन इति न स्थिती सामर्थ्यम् । कुत इत्याहअनन्तरमेव नाशात् स्थित्यभावेन । एवं यदि स एव भाव इत्येतदधिकृत्योक्तम् ॥ ३०
अधुना भावान्तरमधिकृत्याह-अथेत्यादि । अथ भावान्तरमर्थक्रिया । एतद१ लिटाकर्म ' इति उ-पाठः। २ 'समाक्षिप्तान् अस्याः' इति उ-पाठः।