________________
१९६ अनेकान्तजयपताकाख्यं प्रकरणम्
[षष्ठः (मूलम्) वैयर्थ्यमेव । सन्तानान्तरोत्पादक एव हिंसक इति चेत्, न, सन्तानस्य संवृत्तिसत्त्वेनोत्पादायोगात् । विजातीयक्षणोत्पादक ५एवेति चेत्, न, तस्यापि निराकृतत्वात् । तद्भावेऽप्युपादानजनकयोः हिंसकत्वापत्तिः। न चेयं न्याय्या, महासत्वोपादानजनकयोरहिंसकत्वेन कुशलयुक्तत्वाभ्युपगमात् । न च हन्मीति सक्लेशाद्धिंसकत्वम्, असक्लिष्टात् सक्लिष्टानुत्पत्तेः, तदुत्पादनिमित्तस्य निराकृतत्वादिति । अतः खहेतुभ्य एव नाशहेतुमवाप्य तथानाशखभाव १० उत्पद्यते इति त्वयाऽप्यङ्गीकर्तव्यम् , अन्यथोक्तदोषानतिवृत्तिः॥ ___ यस्य तु कार्योत्पाद एव कथञ्चित् कारणनिवृत्तिखभावो नाशः
(खो० व्या०) हिंसासम्भव इति कृत्वा तद्विरतिदेशनावैयर्थ्यमेव । सन्तानान्तरोत्पादक एव लुब्धकादिहिंसकः । इति चेत्, एतदाशक्याह-नेत्यादि । न१५ नैतदेवं सन्तानस्य संवृत्तिसत्त्वेन हेतुना उत्पादायोगात् । न हि संवृत्ति सदुत्पद्यत इति विजातीयक्षणोत्पादक एवेति चेत् हिंसक इति । एतदाशङ्कयाह-नेत्यादि । न-नैतदेवं तस्यापि-विजातीयक्षणोत्पादकस्य निराकृतस्वादधः निमित्तोपादानभावनिषेधेन । अभ्युच्चयमाह तभावेऽपीत्यादिना । तद्भावे
अपि-विजातीयक्षणोत्पादकहिंसकभावेऽपि किमित्याह-उपादानजनकयोरविशेषेण २० हिंसकत्वापत्तिः,द्वयोरपि विजातीयक्षणोत्पादकत्वाविशेषात् ।नचेयम्-उपादान
जनकयोः हिंसकत्वापत्तिः न्याय्या, महासत्त्वोपादानजनकयोः, बोधिसत्त्वादिजनकयोरित्यर्थः, अहिंसकत्वेन. हेतुना कुशलयुक्तत्वाभ्युपगमात् । न हि बोधिसत्त्व उत्पद्यमान आत्मनो हिंसकः, अपि तु कुशलयुक्तोऽभ्युपगम्यते तत्पिता चन चेत्यादि । न च हन्मीति-एवं सक्लेशाद्धिंसकत्वम् । कुत इत्याह२५ असङ्कक्लिष्टात् क्षणात् सक्लिष्टानुत्पत्तेः । अनुत्पत्तिश्च तदुत्पादनिमित्तस्य असङ्क्लिष्टात् सक्लिष्टोत्पादनिमित्तस्य निराकृतत्वादध इति । अतःअस्मात् कारणात् स्वहेतुभ्य एव सकाशान्नाशहेतुमवाप्य मुद्रादिःतथा-विजातीयक्षणोदयरूपप्रकारेण नाशवभाव उत्पद्यते । इति-एवं त्वयाऽप्यङ्गीकर्त्तव्यम् ; अन्यथा-एवमनभ्युपगमे उक्तदोषानतिवृत्तिरिति भावनीयमेतत्।। ३० स्वपक्षे दोषाभावमाह यस्य त्वित्यादिना । यस्य तु-वादिनः कार्योत्पाद
१'असक्लिष्टानुत्पत्तेः' इति ग-पाठः। २ 'उत्पाद्यते' इति ग-पाठः । ३ 'संवृतिस०' इति ङ-पाठः। ४ 'संवृति सदु.' इति ङ-पाठः । ५ 'अनुपपत्तिश्च' इति ङ-पाठः। ६ क्षणोद्भवरूप.' इति -पाठः।