________________
अधिकारः]
खोपशव्याख्यामुनिचन्द्रीयविवरणयुतम्
१९५
(मूलम्)
मुत्पद्यमानव्यतिरिक्तोत्पादजनकत्वे न तदुत्पादा, तस्येति संयोगायोगात्, तदव्यतिरिक्तोत्पादजनकत्वे तूत्पद्यमानजनकत्वतस्तदनुत्पादः, उत्पन्नाव्यतिरिक्तोत्पादायोगात् सत्खभावादिजन्योपादान- ५ हेतुग्राहकप्रमाणाभावतस्तद्व्यवहारनिषेधतो नाविषया विकल्पा:, प्रमाणविवेकतः सज्ज्ञानशब्दव्यवहारनिषेधाविरोधाच ॥ किञ्च निर्हेतुकविनाशवादिनो हिंसासम्भव इति तद्विरतिदेशना
(खो० व्या०) एतदाशक्याह-न-नैतदेवम् , नष्टेतरविकल्पापेक्षया अस्य-अनन्तराभिहितस्य १० नाशेऽपि तुल्यत्वात् । तुल्यत्वं चानष्टस्य सत्त्वान्नष्टस्य वा सत्त्वेन व्यर्थों विकल्पोपन्यासपरिश्रम इत्यपि वक्तुं शक्यत्वात् । एवमित्यादि । एवमुत्पद्यमानव्यतिरिक्तोत्पादजनकत्वेऽभ्युपगम्यमाने उत्पादहेतूनां किमित्याह-न तदुत्पादान तस्य विवक्षितस्योत्पादः । कुत इत्याह-तस्येति-विवक्षितस्योत्पाद्यस्य सं(यो)गायोगात्-सम्बन्धाभावाद् व्यतिरिक्तोत्पादस्य, तदव्यतिरिक्तोत्पादजनकत्वे १५ तु-विवक्षितकार्याव्यतिरिक्तोत्पादजनकत्वे पुनः उत्पद्यमानजनकत्वतः कारणात् तदनुत्पादः-उत्पद्यमानानुत्पादः उत्पद्यमानतापत्तिरेवेत्यर्थः । कुत इत्याहउत्पन्नाव्यतिरिक्तोत्पादायोगात् । अयोगश्चोत्पद्यमानाव्यतिरेकत इति भावना । सत्वभावादीत्यादि । सत्स्वभावादि च तजन्यं च तस्य उपादानहेतवस्तद् ग्राहकप्रमाणावतः कारणात् तद्व्यवहारनिषेधत:-सत्स्वभावादि-२० जन्योपादानहेतुव्यवहारनिषेधतः कारणात् न अविषया विकल्पाः अनन्तरोपन्यस्ताः, किन्तु सविषया एव । इतश्चैतदेवं प्रमाणविवेकतः-प्रमाणाभावेन सज्ज्ञानशब्दव्यवहारनिषेधाविरोधाच नाविकल्पा विषया इति भावनीयम् ।। अभ्युच्चयमाह किश्चेत्यादिना । किञ्च निर्हेतुकविनाशवादिनः-वादिनः
(विवरणम्) न तु सत्स्वभावस्य जन्यस्य जनका उत्पादहेतव इत्यादयो विकल्पा निर्विषया एव भविष्यन्तीत्याह-(१९) सत्स्वभावादि चेत्यादि । बौद्धमते सत्स्वभावादेर्जन्यस्य ये उपादानहेतवस्तद्वाहक नात्येवेति नाविषया विकल्पा इत्यर्थः । प्रमाणविवेकत इत्यादिनाऽयमेवार्थः स्फुटीकृत इति ॥
१'विवेकतज्ज्ञान.' इति ग-पाठः । २ 'उत्पाद्यमानाः' इति -पाठः। ३ 'अयोगश्चोत्पाद्यमानाद् व्यति.' इति ङ-पाठः। ४ 'भावतः तव्यावहार०' इति उ-पाठः। ५ 'सज्ञान.' इति उ-पाठः। ६'भावादि वेत्यादि' इति च-पाठः।