________________
१९४ अनेकान्तजयपताकाख्यं प्रकरणम्
[षष्ठः (मूलम् ) हेतुष्वपि समानत्वात् , तेषामपि सत्स्वभावेतरजन्यापेक्षया तद्व्यतिरिक्ताद्युत्पादापेक्षया चायुज्यमानत्वात्। तथाहि-न सत्वभाव५स्योत्पादकाः, तद्वैफल्यप्रसङ्गात् अनवस्थापत्तेश्च, नासत्खभावस्य, तत्प्रकृत्यन्यथाकरणात् अभ्युपगमविरोधाच्च । अनुत्पन्नस्यासत्त्वात् उत्पन्नस्य च सत्वभावत्वाद् व्यर्थो विकल्पयुगलकोपन्यासपरिश्रम इति चेत्, न, नष्टेतरविकल्पापेक्षयाऽस्य नाशेऽपि तुल्यत्वात् । एक
(खो० व्या०) १० वाऽन्यतिरिक्तम् ? । यदि व्यतिरिक्तं तद्भावेऽपि नाश्यस्य न किञ्चिदिति किं तेन ।
अथाव्यतिरिक्तं स तत्स्वरूपवत् तद्धेतुभ्य एव जातः कथमन्ये कुर्वन्ति इति ? । एवमादि एतजातिमात्रं-साध्यधर्मसमां जातिमधिकृत्य कुत इत्याह-उत्पादहेतुध्वपि भवदभ्युपगतेषु समानत्वात् अधिकृतविकल्पानामिति । एतदेवाह तेषा
मपीत्यादिना । तेषामपि-उत्पादहेतूनां सत्वभावेतरजन्यापेक्षया सत्स्व१५ भावात् स्वभावजन्यापेक्षया तव्यतिरिक्ताद्युत्पादापेक्षया च-जन्यन्यतिरिक्ताव्यतिरिक्तोत्पादापेक्षया च । किमित्याह-अयुज्यमानत्वात्-अघटमानत्वात् तेषामपि । एतदेव दर्शयति तथाहीत्यादिना । तथाहीति पूर्ववत् । न सत्वभावस्य, जन्यस्येति प्रक्रमः, उत्पादका-उत्पादहेतवः । कुत इत्याह-तद्
वैफल्यप्रसङ्गात्-हेतुवैफल्यप्रसङ्गात् तत्स्वभावतयेति अनवस्थापत्तेश्च सरस्व२० भावतया भूय उत्पाद्यत्वापत्तेः । तथा नासत्वभावस्य-जन्यस्योत्पादकाः । कुत इत्याह-तत्प्रकृत्यन्यथाकरणात्-असत्स्वभावप्रकृत्यन्यथाकरणात अभ्यूपगमविरोधाच । न ह्यसत्स्वभावजन्योत्पादकत्वमिष्यते परैः उत्पादहेतूनामिति । अनुत्पन्नस्य उत्पाद्यस्य असत्त्वात् उत्पन्नस्य च सत्वभावत्वात कारणात् व्यर्थः-निरर्थको विकल्पयुगलकोपन्यासपरिश्रमः । इति चेत्,
(विवरणम्) (१२) साध्यधर्मसमां जातिमधिकृत्येति । साध्यधर्मः समो यस्यां सा तथा तामधिकृत्य-आश्रित्य । साध्यधर्मो ह्यत्र नाशहेतूनामभावः । अयं च बौद्धाभिमते उत्पादेऽपि समानः, उत्पादहेतूनामपि विचार्यमाणानामभावात् , उत्पद्यमानाभावापत्तेरिवेत्यर्थः। यदि पुत्पादहेतुभिरुत्पद्यमानाद् भावाव्यतिरिक्त उत्पादः क्रियते तदा ३० उत्पद्यमान एव भावस्तैः क्रियत इत्यायातम् । ततः सदैव तस्य भावस्योत्पद्यमानता स्थात्, न तूत्पन्नता ॥
१ वा युज्यः ' इति ग-पाठः। २ 'तद्वैकल्यप्रसङ्गात्' इति ग-पाठः। ३ 'उत्पद्यत्वा.' इति क-पाठः। ४ 'समानधर्म.' इति च-पाठः। ५'मानापते.' इति च-पाठः।
२५