________________
अधिकारः] स्वोपशव्याख्यामुनिचन्द्रीयविवरणयुतम् १९३
(मूलम्) अन्वयमेकाधिकरणी बन्ध-मोक्षावपि युज्यते । यदा च बद्ध एव न मुच्यते तदा व्यथैव बन्धमोक्षचिन्तेति । एतेन नाशहेत्वयोगार्थक्रियासामर्थ्य परिणामान्तक्षयेक्षणादि क्षणभङ्गसाधनं निराकृतमेव, ५ तथापि लेशतो निराकरणमार्गः प्रदश्यते ॥
तत्र यदुच्यते नाशहेतवो हि नश्वरेतरनाश्यापेक्षया तद्व्यतिरिक्तादिनाशापेक्षया च न युज्यन्त इत्येतजातिमात्रम्, तदुत्पाद
(स्त्रो० व्या०) अन्वयमेकाधिकरणी-एकाधारौ बन्ध-मोक्षावपि युज्यते । यदि नामैवं १० ततः किमित्याह-यदा च बद्ध एव न मुच्यते । तदा किमित्याह-व्यथैवनिरर्थिकैव बन्धमोक्षेचिन्तेति । न बद्धस्य मुक्तौ तत्त्वतो मुक्तिरिति परिभावनीयम् । एतेन-अनन्तरोदितेन कार्यकारणभावदूषणेन नाशहेत्वयोगश्चार्थक्रियासामर्थ्य च परिणामश्चान्तक्षयेक्षणादि चेति द्वन्द्वः । एतत् किमित्याह-क्षणभङ्गसाधनं निराकृतमेव तत्त्वतः, तथापि लेशतः-सजे- १५ पेण निराकरणमार्गः प्रदश्यते ॥
तत्र यदुच्यते क्षणभङ्गवादिभिः-नाशहेनवो हि घटादेर्मुद्गरादयः नश्वरेतरनाश्यापेक्षया नशनशीला-ऽनशनशीलनास्यापेक्षया तद्व्यतिरिक्तादिनाशापेक्षया च नाश्यव्यतिरिक्ताव्यतिरिक्तनाशापेक्षया च न युज्यन्ते-न घटन्ते । तथाहि-नाशहेतवः किं नशनशीलस्यैव नाशं कुर्वन्ति किं वाऽनशनशीलस्य ? । यदि २० नशनशीलस्य कथं कुर्वन्ति तस्य तच्छीलतया तदव्यतिरिक्तत्वात् तस्य च स्वहेतोरेवोसत्तेः । न हि पृथिव्यादिकठिनतादयः तदव्यतिरिक्तास्तदन्यहेतुभिः क्रियन्ते । अथानशनशीलस्य व्याहतमेतत् , अतत्स्वभावस्य तत्कारणत्वविरोधात् । आकाशादेरपि तदुत्पत्तेः तथा चाभ्युपगमप्रकोपः । तथा कि सन्नाशं नाश्याद् व्यतिरिक्तं कुर्वन्ति, किं
(विवरणम्) (२१) तस्य तच्छीलतया तदव्यतिरिक्तत्वादिति । तस्य-नशनशीलपदार्थस्य तकडीलतया-नशनशीलतया तव्यतिरिक्तत्वात्-नशनाव्यतिरिक्तत्वात् ॥
(२३) अतत्स्वभावस्य तत्क(?का)रणत्वविरोधादिति । अतत्स्वभावस्य [भावस्य] अनशनस्वभावस्य [भावस्य ] तत्करणत्वविरोधात्-नशनस्वभावकरणत्वविरोधात् । न ह्यग्नि स्वरस्वभावः सन्नभास्वरस्वभावः केनचित् क्रियते ॥
१ 'णामा(न्त)न्त्यक्षये.' इति ग-पाठः । २ 'चिन्तेत्यवद्धस्य' इति उ-पाठः । ३ 'तन्नाशं नाशादू व्यति' इति कु-पाठः ।
अनेकान्त. २५