________________
अनेकान्तजयपताकाख्यं प्रकरणम्
(मूलम् )
समर्थता वा ततः । विज्ञानसन्ततिरपि तदुत्तरं ज्ञानमेव, भूयसां तदानीमभावात् । ततश्च तत् कुशलमेवोत्तरविज्ञानमाधत्त इति तदेव तद्५ युक्तं तथा भवतीति । एवमुत्तरोत्तरभावेन युक्तमिष्टानिष्टफलजन्म, अन्यथोक्तवत् तदयोगादिति । एवं समुपरोधहेतुभ्यः पीडा प्रतिकलमवदायमानता चान्वयानुसारिण्येव, अन्यथा पीडायुत्कर्षासिद्धिः । न ह्येकगुणतीव्रता भावे तद्विगुणादितीव्रता भवति । अनुभवसिद्धा चेयं सह तारतम्येन एकगुणशुद्धियुक्ताद् द्विगुणशुद्धियुक्तजन्मा १० इत्यपि व्यवस्थापनमेकगुणाक्षेपो भयविषयसंवेदननान्तरीयकमेव इति अन्वयसाधनमेव । अपि च किं बहुना जल्पितेन ? । न विहाय ( स्त्रो० व्या० )
धन्यैव । तथा विज्ञानसन्ततिरपि तदुत्तरम् - अधिकृतकुशलादुत्तरं ज्ञानमेव । कथमेतदेवमित्याह-भूयसां विज्ञानानां तदानीमभावात् नैकोदकबिन्दु१५ प्रभवं स्रोत इति भावनीयम् । ततश्चेत्यादि । ततश्च - एवं व्यवस्थिते तत् कुशलमेव - अधिकृतं उत्तरविज्ञानं आधत्त इति । किमुक्तं भवति ? तदेव - विज्ञानं तद्युक्तं- कुशलयुक्तं तथा भवति - उत्तर विज्ञानरूपतया भवति इति । एवम् - उक्तनीत्या उत्तरोत्तरभावेन हेतुना । किमित्याह युक्तमिष्टानिष्टफलजन्मघटमानक इष्टानिष्टफलोत्पादः, अन्यथा - एवमनभ्युपगमे उक्तवत् तदयोगात् २ निरन्वयनश्वरतया फलायोगादिति । एवमित्यादि । एवं समुपरोधहेतुभ्यो दण्डादिभ्यः पीडा प्रतिकलं-कलां कलां प्रति तथा अवदायमानता च प्रतिकलमेव । किमित्याह - अन्वयानुसारिण्येव उक्तनीत्या, अन्यथा-एवमनभ्युपगमे पीडायुत्कर्षासिद्धि: - पीडाया अवदायमानतायाश्चोत्कर्षासिद्धिः । एनामेव भावयति न ह्येकगुणेत्यादिना । न यस्मादेकगुणतीव्रता भावे सति १५ पीडादेः तद्विगुणा दितीव्रता भवति - पीडादेर्द्विगुणादितीव्रता भवति । अनुभवसिद्धा चेयं - तीव्रता सह तारतम्येन तथा एकगुणशुद्धियुक्तात्, क्षणादिति प्रक्रमः, द्विगुणशुद्धियुक्तजन्मा इत्यपि - एवम्भूतमपि व्यवस्थापनं अन्वयसाधनमेवेति योगः । कथमित्याह - एक गुणक्षेपेण-न तत्परित्यागेन उभयविषयं शुद्धिगुणापेक्षया यत् संवेदनं तत् नान्तरीयकमेवेति कृत्वा । ३० अपि चेत्यादि । अपि च किं बहुना जल्पितेन ? न विहाय - परित्यज्य
१९२
[ षष्ठः
१ 'सिद्धेः' इति पाठः । २ 'भावेन द्विगुणा.' इति ग-पाठः । ३ 'युक्ताश्च द्विगुण. ' इति ग-पाठः।