________________
अधिकारः]
खोपशव्याख्यामुनिचन्द्रीयविवरणयुतम्
१९१
_ (मूलम्)
भोक्ता' इत्युक्तम् । न च हेतुफलभावतोऽन्यः सन्तानः । न च हेतुफलयोरेव कर्तृत्व-भोक्तृत्वे, प्रत्येकमुभयाभावात् अन्यकालेऽन्यानभ्युपगमात्, य एव स एवेति वाग्वैयर्थ्यप्रसङ्गात् , अतस्तस्यैव तथा- ५ भवनेन हेतोरेव कार्यभावे य एव स एवेत्युपपद्यते, नान्यथा सन्तत्यन्तरवत् नानात्वायाधनादिति। तथेदं चोक्तम्-'यः कुशले प्रवर्तते स यद्यपि तदैव सर्वथा विनश्यति तथापि निरुध्यमानः स्वानुरूपकार्योत्पादन समर्थ सामर्थ्य विज्ञानसन्ततावाधाय निरुध्यते' इत्यादि । अत्रापि न हि तत् सामर्थ्य कुशलादन्यदेव, खानुरूपकार्योत्पादन-१०
(स्वो० व्या) इत्यभिधानात् । न चेत्यादि । न च हेतुफलभावतोऽन्यः-अर्थान्तरभूतः सन्तान:, किन्तु हेतुफलभाव एव।न चेत्यादि । न च हेतु-फलयोरेव कर्तृत्वभोक्तृत्वे भवतः । कथमित्याह-प्रत्येकमुभयाभावात् , न हेत्वादावेकस्मिन्नेव कर्तृत्व-भोक्तृत्वे । कथमित्याह-अन्यकाले-हेत्वादिकाले अन्यानभ्युपगमात्-१५ फलाद्या(य)नभ्युपगमात् । य एव स एवेति एकाधिकरणाभावेन वाग्वैयर्थ्यप्रसझात, अतस्तस्यैव-हेतोः तथाभवनेन-फलतया भवनेन हेतोरेव कार्यभावे सति य एव स एवेत्युपपद्यते एकाधिकरणभावेन, नान्यथा सन्तत्यन्तरवत् इति निदर्शनम् । नानात्वाबाधनादिति । नानात्वं च वैयधिकरण्यहेतुरिति भावनीयम् । तथेदं चोक्तं पूर्वपक्षे एव-यः कुशले प्रवर्तते दानादौ स यद्यपि २० तदैव सर्वथा विनश्यति तथापि निरुध्यमानः सन् खानुरूपकार्योत्पादनसमर्थम् । किं तदित्याह-सामर्थ्य विज्ञानसन्ततावाधाय निरुध्यत इत्यादि । अत्रापि-उक्ते न हि तत् सामर्थ्य कुशलादन्यदेव, किन्तु कुशलमेव तत् । स्वानुरूपकार्योत्पादनसमर्थता वा तत:-कुशलान्न
(विवरणम्) (१९) नानात्वाबाधनादिति । नानात्वस्य-भेदस्याबाधनं नानत्वाबाधनं तस्मात् । यदि हि निरन्वयनश्वरत्वमभ्युपगम्यते सन्तानानां तथा यथा एकपुरुषापेक्षया पुरुषान्तरसन्तानस्य नानात्वम् , एवं वसन्ततावपि नानात्वमबाधितमेवेति पूर्वकृतानुष्ठानस्य फलाभावः प्राप्नोतीति ।
११३३तमे पृष्ठे। २ १३४तमे पृष्ठे । ३ 'तत्रापि' इति क-पाठः 1 ४ 'न चाहेतु०' इति सु-पाठः। ५१३४तमे पृष्ठे। ६ किमित्याह' इति ङ-पाठः । ७ 'प्राप्नोति' इति ख-पाठः ।