________________
१९०
अनेकान्तजयपताकाख्यं प्रकरणम्
[पष्टः
मिस्तथातत्त्वव्यवस्थोपपत्तिः । न चेदं तथाऽनुभूयमानबोधान्वयातिरेकेण । न चायमभ्युपगमप्रक्रमागत एव भवतामिति दुःस्थिते ५स्वतन्त्रभेदव्यवहारे कथं (न)प्रत्यक्षानुपलम्भसाधना कार्यकारणभाव इत्युच्यमानं कथं न ज्ञानमानिनो ब्रीडाकरमिति परिचिन्त्यतामेतत् । अतस्तथाऽनुभूयमानतयाऽपास्तभ्रान्ततापराधः परोक्त इति विहाय मत्सरं सौविहित्यकारीति निवेश्य मानसं बोधान्वयोऽभ्युप
गन्तव्यस्तत्वालोचनमोर्गो वा परित्याज्य इत्यलं प्रसङ्गेन ॥ १० अङ्गीकृतश्चायं परेणापि परमार्थतः 'क्षणभेदेऽप्युपादानोपादेयभावेन' इत्याद्यभिदधता । तथाहि-'य एव सन्तानः कर्ता स एवोप
(खो० व्या०) पूर्वापरालोचनमनुसन्धानात्मकत्वादस्य । न चेत्यादि । न चासत्येवास्मिन्पूर्वापरालोचने तथातत्वव्यवस्थोपपत्तिः-पूर्वापरालोचनामिका । न चेद३५ मित्यादि । न चेदं-पूर्वापरालोचनं तथाऽनुभूयमानबोधान्वयातिरेकेण तथाऽनुभूतेः । न चेत्यादि । न च अयं-तथाऽनुभूयमानो बोधान्वयः अभ्युपगमप्रक्रमागत एव भवतां-परेषाम् । इति-एवं दुःस्थिते स्वतन्त्रभेदव्यवहारे भेदकाभावेन न कथं प्रत्यक्षानुपलम्भसाधनः कार्यकारणभावः । इतिएवमुच्यमानं कथं न ज्ञानमानिन:-पुंसो ब्रीडाकरं-लजाकरम् ? । लजा२० करमेवेत्यर्थः । इति एवं परिचिन्त्यतामेतत् भावनासारमिति । उपसंहारसारां स्थितिमभिधातुमाह-अत इत्यादि । अतः तथाऽनुभूयमानतया कारणेन अपास्तभ्रान्ततापराधः, विक्षिप्तभ्रान्ततापराध इत्यर्थः, परोक्तः। इति एवं विहाय मत्सरं-चेतोदोषं सौविहित्यकारी-सुविहितभावकारी इति-एवं निवेश्य मानसम् । किमित्याह-बोधान्वयो यथोक्तोऽभ्युपगन्तव्यः । २५तत्त्वालोचनमार्गों वा परित्याज्यः, उपायाभावादित्यलं प्रसङ्गेन ॥
इहैवोपचयमाह-अङ्गीकृत इत्यादि । अङ्गीकृतश्चायम्-अन्वयः परेणापिबौद्धेनापि परमार्थतः । कथमित्याह-क्षणभेदेऽपि उपादानोपादेयभावेन इत्याद्यभिदधता पूर्वपक्षग्रन्थे । तथाहीत्यादि । तथाहीति पूर्ववत् । य एव सन्तानः कर्ता स एवोपभोक्ता इत्युक्तं प्रा अन्यैश्च___ “यस्मिन्नेव तु सन्ताने आहिता कर्मवासना ।
फलं तत्रैव संधत्ते कसे रक्तता यथा ॥"" १ इतस्तथा' इति क-पाठः। २ 'मार्गोऽपरित्याज्य' इति ग-पाठः। ३ १३३ तमे पृष्ठे । ४ 'भावने कथं' इति ऊ-पाठः । ५ 'विवक्षितभ्रान्त.' इति क-पाठः । ६ 'चेतोद्वेष' इति क-पाठः। ७ १३३तमे पृष्ठे। ८ १३३तमे पृष्ठे । ९ पाठान्तरार्थ द्रष्टव्यं १३४तम पृष्ठम् । १० अनुष्टुप् ।