________________
अधिकारः] खोपशव्याख्यामुनिचन्द्रीयविवरणयुतम् १८९
(मूलम्) कारणात्मना कार्यबुद्धिश्च कार्यात्मनेति प्रत्यक्षानुपलम्भसाधन: तद्भाव इति गीयते। कोऽन्योऽद्वयज्ञानवादिन एवं ब्रूयात् ? । अद्वया कारणाद्यात्मना च वेद्यत इति सुभाषितमेतत् । कीदृक् खल्वद्वयाया ५ वेदनम् ? । यदपि गगनतलवालोकवत् प्रकाश्यप्रकाशकान्तरविरहेणाजडरूपतया जन्मैव तथोच्यते, तदपि तत्त्वतः कर्मकर्तृभावे वेदनायोगेन स्वत एव दुःस्थितमिति नार्थान्तरग्रहणसाध्यं हेतुफलव्यवहारोपकारं कर्तुमलमित्यनुपन्यसनीयमेव विद्वज्जनसमाजे । न च अद्वयमात्रतस्वाया भेदकमन्तरेण तथाविधविकल्पोदयो १० न्याय्यः । न च सति भेदके भाषाद्रव्यादौ तन्मात्रतत्ववादः । न च सत्यपि विकल्पोदये क्षणभेदेन पूर्वापरालोचनम् । न चासत्येवा
(स्वो० व्या०) कारणात्मना संवेद्यते सा तथैवेति कृत्वा कार्यबुद्धिश्च कार्यात्मना इति-एवं प्रत्यक्षानुपलम्भसाधनः तद्भावा-कार्यकारणभाव इति गीयते । एतदा-१५ शङ्याह-कोऽन्योऽद्वयज्ञानवादिनः एवं ब्रूयात् ? । कथमिदमयुक्तमित्याहअद्वया-ग्राह्यग्राहकविकला बुद्धिः कारणाद्यात्मना च संवेद्यते इति सुभाषितमेतत् ।भावार्थमाह-कीहक् खल्वद्वयाया:-बुद्धेर्वेदनम् ? । यदैव वेद्यते तदैव ग्राह्यग्राहकभावोपपत्तेः, नाद्वयेत्यभिप्रायः । यदपीत्यादि । यदपि गगनतलवालोकवदिति निदर्शनं प्रकाश्यप्रकाशकान्तरविरहेण, उभ-२० यान्तरविरहेणेत्यर्थः, अजडरूपतया-बोधरूपतया जन्मैव-उत्पाद एव तथोच्यते-अद्वयरूपतयोच्यते परैः, तदपि तत्त्वतः-परमार्थेन कर्मकर्तृभावे सति तात्त्विके वेदनायोगेन हेतुना स्वत एव दुःस्थितमिति कृत्वा नार्थान्तरग्रहणसाध्यं तत्सापेक्षत्वेन हेतुफलव्यवहारे उपकारं कर्तुमलमिति कृत्वा अनुपन्यसनीयमेव । के(?क्के)त्याह-विद्वजनसमाजे-पण्डितजनसमु-२५ दाये । उपचयमाह-न चेत्यादि । न च अद्वयमात्रतत्त्वाया:-बुद्धेः सकाशात् भेदकमन्तरेण भाषाद्रव्यादिकं तथाविधविकल्पोदयः हेतुफलभावव्यवस्थाकारी विकल्पोत्पादो न्याय्यः, अद्रयबोधमात्रात्-अद्वयबोधमात्रोत्पत्तेः । न चेत्यादि । न च सति भेदके भाषाद्रव्यादौ च, 'आदि'शब्दात् मनोद्रव्यसंग्रहः तन्मात्रतत्त्ववाद:-अद्वयबोधमात्रतत्त्ववादः तैथाधिक्योपपत्तेः । न चेत्यादि ।३० न च सत्यपि विकल्पोदयेऽनन्तरोदिते क्षणभेदेन हेतुना । किमित्याह
१ अत्र पाठांशो लुप्त इति भाति। २ 'भावापतेः' इति ङ-पाठः। ३ 'तदाधिक्योप०' इति -पाठः।