________________
१८८ अनेकान्तजयपताकाख्यं प्रकरणम्
[पष्टः (मूलम्) अयोगश्च विषयकृतनिर्भासविरहे अर्थप्रत्यासत्तिनिबन्धनाभावेनेदमस्य संवेदनमिति व्यवस्थाऽनुपपत्तेः, आकारस्य चानर्थकेष्वपि ५स्वमादिप्रत्ययेषु भाविनो वस्तुव्यात्यभावात्, स्थूलचित्राकाराणां चैकत्र विज्ञाने भावतः सम्भवायुक्तरिति ॥
स्यादेतत्-नेदमद्वयज्ञानवादिनः कथञ्चिद् बाधकम् । तस्य हि सर्व एव भावाश्चित्तमांत्रसारशरीरा हेतुफलतां बिभ्रतीति मतम् । बुद्ध
यश्च वसंवित्प्रत्यक्षप्रमाणसिद्धसद्भावाः स्वरूपप्रतिपत्तये नापरं १० प्रकाशकं प्रतीक्षन्त इति या यथा सा तथैव संवेद्यते, कारणबुद्धिः
(स्त्रो० व्या०) कार-साकारयोस्तद्राहकत्वायोगात्-कार्यकारणग्राहकत्वायोगात् । अयोगः च विषयकृतनिर्भासविरहे, विषयाकारविरहे इत्यर्थः । अर्थप्रत्यासत्तिनिवन्धनाभावेन हेतुना इदमस्य संवेदनमिति-एवं व्यवस्थाऽनुपपत्तेः। १५ अर्थाकारता ह्येवं व्यवस्थानिवन्धनमिति द्वितीयं विकल्पमधिकृत्याह-आकारस्य च ज्ञाने विषयरूपस्य अनर्थकेष्वपि खमादिप्रत्ययेषु भाविनः-सतः । किमित्याह-वस्तुव्याप्त्यभावात्-वस्तुना सह व्याप्त्यभावात् । उपचयमाह-स्थूलचित्राकाराणां च एकत्र विज्ञाने सूक्ष्मैकस्वभावे भावत:-परमार्थेन
सम्भवायुक्तेरिति इतश्चैतदेवम् ॥ २० स्यादेतदित्यादि । अथैवं मन्यसे-नेदम्-अनन्तरोदितमद्वयज्ञानवादिन:
ग्राह्यग्राहकाकाररहितज्ञानवादिनः कथञ्चिद् बाधकम् इत्साह-तस्येत्यादि । तस्य यस्मात्-अद्वयज्ञानवादिनः सर्व एव भावा:-धूम-धूमध्वजादयः चित्तमात्रसारशरीराः, अद्वयबोधरूपा एवेत्यर्थः । किमित्याह-हेतुफलतां बिभ्रतीतिएवं मतम् । बुद्धयश्च किंविशिष्टा वर्तन्ते ? स्वसंवित्प्रत्यक्षप्रमाणसिद्ध२५ सद्भावाः स्वसंविदेव प्रत्यक्षप्रमाणं तेन सिद्धसद्भावाः सत्यः स्वरूपप्रतिपत्तये
खरूपप्रतिपत्त्यर्थं नापरं प्रकाशकं-स्वव्यतिरिक्तं प्रतीक्षन्त इति कृत्वा या यथा-वस्तुस्थित्या बुद्धिः सा तथैव संवेद्यते, तद् यथा-कारणबुद्धिः
(विवरणम्) (१७-१८) स्थूलचित्राकाराणां चेति । घटाद्याकारा हि स्थूलास्तथैव प्रतीयमान३० त्वात् चित्राश्च-नानाप्रकारा अतः कथमेकस्मिन् ज्ञाने सूक्ष्मस्वभावे ते भवेयुरिति ? ॥
१ 'स्थूलविचित्रा०' इति ग-पाठः। २ 'मात्रस्य हेतु०' इति क-पाठः ।