________________
स्वोपज्ञव्याख्यामुनिचन्द्रीयविवरणयुतम्
( मूलम् )
धूमानलौ तदन्यभावाविव कश्चित् तयोर्हेतुहेतुमद्भावं प्रतिपद्यते, भूयो धूमदर्शनात् तदनवगतेरिति । क्षयोपशमसामर्थ्यादेव तथाऽन्यतरग्रहणतोऽपि तद्भावावगमे को दोषः १ न कश्चिदन्यः अपि तु ५ नादलात् तदुत्पत्तिरित्यसकृन्निदर्शित एव । यदा हेतु-फलयोरणीयसाऽपि कालेन न व्यवधानं न च ध्वंसनाम्नो विनाशस्य हेतुत्वम्, तदानीं कथमदलात् तदुत्पतिः । तस्यैव तथाभावाभावतोऽसत् सद्भवनेनेत्यलमनेन पुनः पुनरभिहितेन । आलोच्यतां वस्तुतत्त्वमिति, अतः 'प्रत्यक्षानुपलम्भसाधनः कार्यकारणभावः" इति १० वचनमात्रमेव ॥
अधिकारः ]
१८७
इतश्चैतदेवम्, तयोर्निराकार - साकारयोः तग्राहकत्वायोगात् । ( स्वो० व्या० ) घरभावेन धूमानलौ लोकनीत्या तदन्यभावाविव-अप्रतिबद्धापरपदार्थाविव कश्वित्-प्रमाता तयो:- धूमानलयोः हेतुहेतुमद्भावं - कार्यकारणभावं १५ प्रतिपद्यते । कथं न प्रतिपद्यत इत्याह- भूयः पुनर्धूमदर्शनात् सकाशात् तदनवगतेः - अनलाद्यनवगतेः इति । आह-क्षयोपशमसामर्थ्यादेव सकाशात् तथा-निरन्वयनाशभावेन अन्यतरग्रहणतोऽपि धूमादिग्रहणमधिकृत्य तद्भावावगमे, प्रक्रमाज्जन्यजनकभावावगमे सति, को दोष: ? । एतदाशङ्कयाह-न कश्चिदन्यः - दोषः, अपि तु नादलात् - नाकारणात् तदुत्पत्तिः - धूमाद्युत्पत्तिः २० इत्यसकृन्निदर्शित एव दोषः । आह-यदा हेतु-फलयोः - कार्य-कारणयोः अणीयसाऽपि कालेन, अत्यन्तलघुनाऽपीत्यर्थः, न व्यवधानम्, किं तर्हि ? हेतुसमनन्तरमेव फलम् । न च ध्वंसनाम्नो विनाशस्य प्रसज्यात्मकस्य हेतुत्वं फलं प्रति । तदानीं कथमदलात् तदुत्पत्तिरिति ? । एतदाशङ्कयाहतस्यैवेत्यादि । तस्यैव - हेतोः तथाभावाभावतः - फलरूपेण भावाभावात् कार - २५ णात् असत् सद्भवनेन हेतुना अदलेति । तथाहि - यदैव हेतुरेव न फलीभवति तदैवासत् सद् भवतीति स्थितमदलत्वमित्यलमनेन पुनः पुनरभिहितेन । आलोच्यतां वस्तुतत्त्वमिति । अतः 'प्रत्यक्षानुपलम्भसाधनः कार्यकारणभावः' इति वचनमात्रमेव परदर्शने, निरर्थकमित्यर्थः ॥
इतश्चैतदेवमधिकृतवचनं वचनमात्रमेव, तयोः - प्रत्यक्षानुपलम्भयोः निरा - २० १ 'नादला तदु०' इति क-पाठः । २प्रेक्ष्यतां १७६तमं पृष्टम् । ३ 'नाकारणातदु०' इति क-पाठः ।