________________
अनेकान्तजयपताकाख्यं प्रकरणम्
(मूलम्)
बोधवैकल्यात् धूममात्रग्रहणरूपत्वात् तदितरत्रापि तदुपपत्तेः । न चैवमपि तत्तत्खभावताऽवगमः, तथाऽप्रतीतेः तदितरावगमा५ भावादिति तस्यैव तद्भावादावन्वयादिसिद्धिः । आह-अन्वयपक्षेऽपि केवलधूमादिग्रहणेऽनलादिगतिर निवारणीया, पारम्पर्येण तत्राप्यन्वयोपपत्तेरिति । नानिवारणीया । न ह्यसावन्वयमात्रनिबन्धनैव, अपि तु आगमादिजविशिष्टक्षयोपशमनिबन्धनाऽपि तमन्तरेणानन्तयेत उभयदर्शिनोऽपि तदनुपपत्तेः कचित् तथाऽदर्शनात् । न १० खलु समयादिनाऽनभिव्यक्तक्षयोपशमः पश्यन्नप्युत्तराधरभावेन ( खो० व्या० )
तरबोधवैकल्यात्- केवलानलग्रहण बोधवैकल्यात्, वैकल्यं च धूममात्रग्रहणरूपत्वात् अधिकृतयोवस्य तदितरत्रापि यथोदितसमनन्तरजबोधमात्रेऽपि तदुपपत्तेः- धूममात्र ग्रहणरूपत्वोपपत्तेः । न चैवमपीत्यादि । न चैवमपि न्याय१५ तुल्यतायां तस्य - धूममात्रस्य 'नालिकेर' द्वीपवासि सम्बन्धिनः तत्स्वभावतावगम:अग्निजन्यस्वभावतावगमः । कुत इत्याह- तथाsप्रतीतेः - अग्निजन्यस्वभावत्वेनाप्रतीतेः । अप्रतीतिश्च तदितरावगमाभावात् अभ्यवगमाभावात् 'नालिकेर' द्वीपवासिनः । इति एवं तस्यैव तद्भावादी- केवलानलग्रहणस्यैव धूमग्रहणभावादौ । 'आदि' शब्दात् कथञ्चित् पर्यायव्यावृत्तिपरिग्रहः । किमित्याह- अन्वयादिसिद्धिः, २० अन्वयव्यतिरेकसिद्धिरित्यर्थः, सुवर्णद्रव्यवत् कटकस्यैव कुण्डलादित्वेन भवनात् । आहेत्यादि । आह परः - अन्वयपक्षेऽपि सति केवलधूमादिग्रहणे । किमित्याह- अनलादिगतिरनिवारणीया । कुत इत्याह-पारम्पर्येण तत्रापि - केवलानलग्राहि'नालिकेर' द्वीपवासिनि अन्ययोपपत्तेरिति । एतदाशङ्कयाह-न अनिवारणीया न, न ह्यसौ-न यस्मात् असौ अनलादिगतिः अन्वयमात्र२५ निबन्धनैव; अपि तु किं तर्हि आगमादिजश्चासौ, 'आदिशब्दात् तपोविनयादिग्रहः, विशिष्टक्षयोपशमश्र तन्निबन्धनाऽपि अनलादिगतिः । कुत इत्याह-तमन्तरेण - विशिष्टक्षयोपशम (मन्तरेण ) आनन्तर्यतः - आनन्तर्येण उभयदर्शिनोऽपि प्रक्रमाद धूमानलदर्शिनोऽपि तदनुपपत्तेः - अनलादिगत्यनुपपत्तेः । अनुपपत्तिश्च क्वचित्-प्रमातरि तथाऽदर्शनात् उभयदेर्शिनोऽप्यनलादि३० गत्यदर्शनात् । एतदेवाह न खल्वित्यादिना । न खलु नैव समयादिनासङ्केत- तपो विनयादिना अनभिव्यक्तक्षयोपशमः - प्रमाता पश्यन्नप्युत्तरा
१ ' तथाप्रतीतेः' इति ग-पाठः । २ ' दर्शनेऽप्यनला०' इति ङ-पाठः ।
૮૬
[ षष्ठः