________________
अधिकारः] स्योपशव्याख्यामुनिचन्द्रीयविवरणयुतम् १८५
(मूलम् ) इति चेत्, तदभावे तद्भावः । इष्यत एवैतदिति चेत्, स इतरस्यापि तुल्यः । तदनन्तरं तद्भावेनातुल्य इति चेत्, तदभावभाविनः किमनेन?। सोऽनन्तरभावी तद्धेतुर्भवतीति चेत्, नासत् ५ सद्भाविन इत्युक्तम् । स तस्य जनक इति चेत्, न किञ्चित् तल्लक्षणमस्य । ततस्तद्भाव एवेति चेत्, भूतेनापि किं तेन तदितर
(खो० व्या०) एतदाशयाह-किमिदं तदानन्तयं तदुत्तरकालभावितयाऽस्त्येवैतदित्यभिप्रायः । तदनन्तरेत्यादि । तदनन्तरसमये-केवलानलग्रहणानन्तरसमये तद्भाव:-धूम-१० ग्रहणभावः । इति चेत्, एतदाशझ्याह-तदभावे तद्भाव, केवलानलग्रहणाभावे धूमग्रहणभाव इत्यर्थः । इष्यत इत्यादि । इष्यत एवैतद् यदुत तदभावे तद्भावः । इति चेत्, एतदाशयाह-स इत्यादि । स इतरस्यापि तुल्यः सः तदभावे तद्भावः इतरस्यापि-केवलानलग्राहिधूमग्राहिणस्तुल्यस्तत्रापि केवलानलग्रहणाभाव एव तद्भूमग्रहणमिति कृत्वा । तदनन्तरेत्यादि । तदनन्तरं तद्भावेन-केवलानलग्रहणा- १५ नन्तरं धूमग्रहणभावेन अविनाभावग्रहणेऽतुल्यः स इतरस्यापि तद्भावे तद्भावः । इति चेत्, एतदाशङ्कयाह-तदभावभाविनः किमनेन-केवलानलग्रहणाभावभाविनः धूमग्रहणस्य किमनेन ? । तदनन्तरं तद्भावेनाभावाविशेषादित्यभिप्रायः। सोऽनन्तरभावीत्यादि । सोऽनन्तरभावी केवलानलग्रहः तद्धेतुर्भवति-धूमग्रहणहेतुर्भवति । इति चेत्, एतदाशयाह-नासत् सद्भाविन इत्युक्तम्, असत् सद् भवति तच्छीलं २० 'वेत्यसत् । सद्भावि कार्य तस्य न हेतुः कश्चित् तत् तथा भावनेत्युक्तं प्राक् । स तस्येत्यादि । सः-हेतुस्तस्य-कार्यस्य जनकः । इति चेत्, एतदाशक्याह-न किञ्चित् तल्लक्षणमस्य-न किञ्चिजनकलक्षणमस्य-हेतोः। तत इत्यादि । ततः हेतोस्तद्भाव एव-कार्यभाव एव । इति चेत्, एतदाशङ्कयाह-भूतेनापीत्यादि । भूतेनापि किं तेन?-तत इह प्रक्रमे धूमग्रहणेन केवलानलग्रहणात् किम् ? न किञ्चिदित्याह-तदि-२५
(विवरणम्) (९) तदुत्तरकालाभावितया अस्त्येवैतदित्यभिप्राय इति । 'नालिकेर'द्वीपवासिनो हि प्रमातुः प्रदीर्घ पूर्व मुर्मुराद्यवस्थपावकदर्शनमभूत्, समुद्रोत्तरणानन्तरं च धूमज्ञानमुपादि इत्यस्यैवानन्तर्यनिरन्वयनश्वरवस्तुवादिमतेऽनन्तरचिरातीतत्वस्य विशेषाभावात् ॥ १'चेयसत्' इति रू-पाठः ।
अनेकान्त. २४