________________
१८४
अनेकान्तजयपताकाख्यं प्रकरणम् [षष्ठः
(मूलम्) दर्शनानन्तरं धूमग्राहिषु तत्तुल्यतोपपत्तेः, तत्राप्यगृहीताविनाभावस्थासम्भवादिति । तत्रापि तत्तुल्यतायास्तत्त्वतोऽसिद्धिरिति ५ चेत्, किमत्र क्षुण्णमित्यालोच्य वाच्यम् । नैकस्य कारणकारणं तद्धेतुहेतुविषयमिति चेत् सम्भवत्यपि केवलानलग्राहिणः । तदपि न तथा. धूमज्ञानसमनन्तर इति चेत्, ननु तथेति कोऽर्थः । तदनन्तरं तद्भावेनेति चेत्, किमिदं तदानन्तर्यम् ? । तदनन्तरसमये तद्भाव:
(स्वो० व्या०) ० नन्तरं यानपात्राधारूढानां धूमादिग्राहिषु प्रमातृषु तत्तुल्यतोपपत्तेःसमन्तरतुल्योपपत्तेः । ततः किमित्याह-तत्रापीत्यादि । तत्रापि यथोदितधूमग्राहिषु अगृहीताविनाभावस्य-'नालिकर'द्वीपवासिनः प्रमातुः असम्भवाद् धूमादिग्रहणादेवानलादिगतेरिति । तत्रापीत्यादि । तत्रापि यथोदितधूमग्राहिषु तत्तुल्य
ताया:-समनन्तरतुल्यतायास्तत्त्वतः-परमार्थेन असिद्धिः । इति चेत्, एतदा१५ शक्याह-किमत्र क्षुण्णं येन तत्तुल्यताया असिद्धिः इत्यालोच्य वक्तव्यं स्वदर्शनस्थितिमित्यभिप्रायः । नैकस्येत्यादि । नैकस्य-समनन्तरस्य 'नालिकेर'द्वीपवासिप्रमातृसम्बन्धिनःकारणकारणं प्रदीर्घहेतुपरम्पराभावि तहेतुहेतुविषयं तस्य-सामान्येन धूमग्राहिसमनन्तरस्य हेतुः-धूमस्तस्यापि हेतुः-अग्निस्तद्विषयमग्निविषयम्। इति चेत्, एतदाशझ्याह-सम्भवतीत्यादि । सम्भवत्यपि कारणकारणं तद्धेतुहेतुविषयः केव२० लानलग्राहिण:-'नालिकेर'द्वीपवासिनोऽपि । तदपीत्यादि । तदपि केवलानलग्राहिणः न तथा-तेन प्रकारेण धूमज्ञानसमनन्तरः। इति चेत्, एतदाशङ्क्याह-ननु तथेति कोऽर्थः प्रबन्धापेक्षया भवतीत्यभिप्रायः? । तदनन्तरमित्यादि । तदनन्तरं-केवलानलग्रहणानन्तरं तदभावेन-धूमग्रहणभावेन । इति चेत्,
(विवरणम् ) १५ (१८) धूमग्राहिसमनन्तरस्येति । धूमप्राही चासो समनन्तरश्च धूमग्राहि
समनन्तरस्तस्य । अयमभिप्रायः-योऽयं 'नालिकेर'द्वीपवासी प्रमाता तस्य न कदाचिदग्निगोचरं ज्ञानं पूर्वमजनि, इतरस्य तु प्रमातुः प्रदीर्घज्ञानक्षणपरम्परायां पावकप्रैलोकनः क्षणोऽजनीत्यसौ धूमदर्शनात् तं प्रतिपद्यत इति ॥
(२१) न तथा-लेन प्रकारेणेति । यथैतद्देशवासिनः प्रमातुः प्रदीर्घपरम्परायां ३० अग्निज्ञानमजनि न तथा 'नालिकेर'द्वीपवासिन इति ॥
१ 'तथाविधधूम.' इति ग-पाठः। २ 'न तु तथेति' इति ग-पाठः। ३ 'विषयं केवला.'
-पाठः। ४ 'प्रलोकानः क्षणो' इति च-पाठः। ५ 'परम्परायां पावकप्रलोकनः क्षणोऽजनि इत्यसौ धूमदर्शनात् तं प्रतिपद्य' इति च-पाठः । तदनन्तरं तत्र विवरणान्तरस्य पाठस्यांशः।