________________
स्वोपज्ञव्याख्यामुनिचन्द्रीयविवरणयुतम्
(मूलम् )
जननखभावमिति तथैव गृह्णाति, अन्यथा तदग्रहणप्रसङ्गात् । एवं कार्यमपि विशिष्टकारणजन्यस्वभावमिति तथैव गृह्यते, तत्सामर्थ्यप्रभवश्च विकल्पस्तथैव प्रवर्त्तत इति न्याय्यस्तदवसाय इति । अत्र ५ उच्यते - विशिष्टकार्यजननखभावग्रहणं विशिष्टकारणजन्यख भावग्रहणं चेतरेतरग्रहणात्मकं न वः खराद्धान्तनीत्योपपद्यत इत्युक्तप्रायम् । उपपत्तावपि सर्वत्र तथाग्रहणात् अविनाभावग्रहणमन्तरेणापि धूमादिग्रहणादेवानलादिगतिरनिवारणीया । समनन्तरबैकल्यात् नेति चेत् न, केचित् तत्तुल्यतायामप्यभावात्, समुद्र - १० (स्वो० व्या० )
अधिकार ]
१८३
एतदेव भावयति तथाहीत्यादिना । तथाहीति पूर्ववत् । कारणज्ञानं कारणं गृह्णात्येव । तच्च कारणं विशिष्टैककार्यजननखभावमिति कृत्वा तथैव गृह्णाति यथा तद् व्यवस्थितम्, अन्यथा ग्रहणे तदग्रहणप्रसङ्गात् कारणात् । एवं कार्यमपि विशिष्टकारणजन्यखभावमिति कृत्वा तथैव गृह्यते यथा १५ तद् व्यवस्थितं तत्सामर्थ्यप्रभवश्व - कारणादिज्ञानसामर्थ्यप्रभवश्च विकल्पस्तथैव प्रवर्त्तते । इति एवं न्याय्यस्तदवसायः - कार्यकारणावसायः । इति चेत्, एतदाशाह - अत्रोच्यते समाधिः । विशिष्टकार्यजनन स्वभावग्रहणं कारणगतं तथा विशिष्टकारणजन्यस्वभावग्रहणं च कार्यगतम् । किमित्याह - इतरेतरग्रहणात्मकं वर्तते, इतरेतरोपाधित्वादितरेतरविशिष्टत्वैस्य । किमित्याह-न २० वो - युष्माकं खराद्धान्तनीत्या - खसिद्धान्तन्यायेन उपपद्यते इत्युक्तप्रायं -- प्रायेणोक्तम् । उपपत्तावपि अस्य तत्तत्स्वभावतया इतरेतरविशिष्टग्रहणस्य । किमि - त्याह- सर्वत्र तथाग्रहणात् कारणात् अविनाभावग्रहणमन्तरेणापि । किमित्याह - धूमादिग्रहणादेव, 'आदि' शब्दाद् वालकादिग्रहः, अनलादिगतिरनिवारणीया । इहापि 'आदि' शब्दात् जलादिग्रहः । समनन्तरेत्यादि । २५ समनन्तर बैकल्यात् कारणान्नेति चेत् अविनाभावग्रहणमन्तरेणापि धूमादिग्रह्णादेवानलादिगतिरिति । एतदाशङ्कयाह नेत्यादि । नैतदेवम्, कचित् न सर्वत्र तत्तुल्यतायामपि समनन्तरतुल्यतायामपि अभावात् अविनाभावग्रहणमन्तरेणापि धूमादिग्रहणादेवानलादिगतिरिति । एतद्भावनायैवाह - समुद्रेत्यादि । समुद्रदर्शना
१ ' क्वचित् तुल्य०' इति ग-पाठः २ 'कारणं गृह्णात्येव तच कारणं विशिष्ट ०' इति ङ-पाठः । ३ 'स्वस्य एतत् किमि०' इति ङ-पाठः ।