________________
१८२
अनेकान्तजयपताकाख्यं प्रकरणम् [ षष्ठः
(मूलम् ) न चैवं तत्रापि तथाभावे कश्चिद् विरोधः, भवन्यायाविशेषात् । न चात्र लोकानुसारो विशेषक इति, अभ्युपगमविचारादिति ॥ ५ किञ्च ज्ञानार्थयोःक्षणिकत्वादेकैकेनैकैकग्रहणे सत्यपि एतत् कारणमिदं कार्यमिति कुतोऽवसायः ? । स्यादेतत्-तयोरेव तथाग्रहणात् । तथाहि-कारणज्ञानं कारणं गृह्णात्येव । तच्च विशिष्टैककार्य
(खो व्या) हेतुभ्यः अनलाधुदयदर्शनात् । 'आदि'शब्दाद् गोमयशालूकशालूकोदयग्रहः । १० न चैतेषां-वह्नयादिजन्यानामनलादीनां जातिभेदोऽपि । कुत इत्याह-तुल्य
तया प्रतीतेः एतेषामनलादीनाम् । न चैवंतत्रापि-गवाश्चादौ तथाभावे कस्यचिदश्वस्याश्वादुत्पत्तिः कस्यचिद् गोरित्येवंभावे कश्चिद् विरोधः। कथमित्याहभवन्यायाविशेषात् अन्वयशून्यस्य तत्तत्स्वभावतामात्रस्य सर्वत्र वक्तुं शक्यत्वात् । ततश्च गोरप्यश्वजननस्वभावादश्वाविरोध इति परिचिन्तनीयमेतत् । इतराश्वस्य तु तत्र १५ कटकुट्यसमानता गोर्जनकत्वं चेत्यलं प्रसङ्गेनेति भवन्न्यायाविशेषः । न चात्र-विचारे लोकानुसारो विशेषक इति । कुत इत्याह-अभ्युपगमविचारादिति ॥
किञ्चेत्यादि । अभ्युच्चयग्रन्थ एव ज्ञानार्थयोः क्षणिकत्वात् कारणात् एकैकेन-ज्ञानेन एकैकग्रहणे सत्यपि कारणकार्यापेक्षया एतत् कारणमिदं कार्यमिति-एवं कुतोऽवसाय: ? । न कुतश्चिदपीत्यर्थः, विविक्तद्वय२० ग्रहणेन सम्बन्धाग्रहणादिति गर्भः । स्यादेतदित्यादि । अथैवं मन्यसे-तयोरेवकारण-कार्ययोः तथाग्रहणात्-कारणकार्यतया ग्रहणात् , अवसाय इति प्रक्रमः ।
(विवरणम्) (९) गोमयशालूकशालूकोदयग्रह इति । गोमय-शालूकाभ्यां सकाशात् यः शालूकस्य-वृश्चिकस्योदयः-उत्पत्तिस्तस्य ग्रहः-स्वीकारः । तत्र कोऽपि गोमयात् २५ कश्चिच्च वृश्चिकाद् वृश्चिक उत्पद्यत इत्यर्थः ॥
यदि हि गोक्षणात् सकाशादश्वक्षणः समजनि तदा प्राच्याश्वक्षणेन किं कृतमित्याह-(१४-१५) इतराश्वस्य तु तत्र कटकुट्यसमानता गोर्जनकत्वं चेति । इतराश्वस्य तु-पाश्चात्यक्षणस्य पुनस्तत्राग्रेतनेऽश्वक्षणे कटकुट्यसमानता, अकिञ्चित्करत्वमित्यर्थः । गोर्जनकत्वं च-अप्रेतनगोक्षणोत्पाद(क)त्वं च गोक्षणोऽश्वे व्यावृत्ते ३० अश्वक्षणश्च गवीत्यर्थः ।।
१ 'भवेन्याया०' इति ग-पाठः। २ 'सत्यपि तत्' इति ग-पाठः। ३ 'तथाग्रहणेन' इति ग-पाठः। ४ 'गोमयादिशालूक०' इति ङ-पाठः। ५ 'कश्चित्वश्चित्ववृश्चिकात्' इति ख-पाठः; च-पाठस्तु 'कश्चित्ववृश्चिकात्'। ६ 'पुनस्तत्रामतनाश्वः' इति क-पाठः।