SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ अधिकारः] स्वोपशव्याख्यामुनिचन्द्रीयविवरणयुतम् (मूलम्) चेत्, न, तस्यान्यदा भावासिद्धेः। सन्तानापेक्षया सिद्धिरिति चेत्, क एतद् वेद इति निभाल्यतां खतनम् । विशिष्टयोधसन्तानजो विकल्प इति चेत्, कुतस्तस्यान्यतरैकबोधजत्वे तथावैशिष्ट्यम् ? । तथाविध-५ हेतुभ्यस्तद्वेतुभावादिति चेत्, एतदपि प्रतिनियतार्थतया भवद्विज्ञानगोधरातीतमेव । किं तेन ? । प्रतीतिरियमीहशीति चेत्, अस्त्येषा तन्त्रत्यागिनी तुन युक्तोपन्यसितुम् । न ह्येषा तथाऽनुभवप्रतीयमानान्वया सर्वथा तग्राहिबोधविकलादू बोधमात्रा भवितुमर्हति ॥ न चैकजातीया अपि न भिन्नहेतुजाः, वहयरणिसूर्योपलादिभ्यः १० अनलाद्युदयदर्शनात् । न चैतेषां जातिभेदोऽपि, तुल्यतया प्रतीतेः। (स्वो० व्या०) चेत्, एतदाशङ्याह-न, तस्य-अश्वविशेषस्य अन्यदा भावासिद्धेः। सन्तानेत्यादि । सन्तानापेक्षया सिद्धिरिति चेत्, अन्यदा अश्वविशेषस्य । एतदाशङ्कयाहक एतद् वेद-जानाति इति निभाल्यतां स्वतन्त्रम् । क्षणनिरन्वयनश्वैरैकवस्त्वा-१५ लम्बनानि विज्ञानानीति भवतः स्वतन्त्रम् । अस्मिन्नेवं व्यवस्थिते क एतद् वेद इति ? । विशिष्टेत्यादि । विशिष्टश्चासौ बोधसन्तानश्च तज्जो विकल्पः । इति चेत्, एतदाशङ्याह-कुतस्तस्य-अधिकृतविकल्पस्य अन्यतरैकबोधजत्वे सति तथावैशिष्ट्यं येनैतद् वेद ? । तथाविधेत्यादि । तथाविधहेतुभ्यः परम्परया तहेतुभावात् तस्य-विकल्पस्य हेतुभावात्-तथाविधान्यतरबोधभावात् । इति चेत् , २० एतदाशङ्कयाह-एतदपि-अनन्तरोदितं प्रतिनियतार्थतया कारणेन भवद्विज्ञानगोचरातीतमेव । किं तेनेत्यादि । किं तेन-मदीयविज्ञानागोचरेण ? । प्रतीतिरियं-प्रस्तुताश्चादिगोचरा ईदृशी। इति चेत्, एतदाशक्याह-अस्त्येषा-प्रतीतिः तघ्रत्यागिनी तु त्वन्नीत्या, अतो न युक्तोपन्यसितुम् । न ह्येषेत्यादि । न यस्मादेषा तथा-तेन प्रकारेण पूर्वापरीभूतबोधलक्षणेन अनुभवेन प्रतीयमानः २५ अन्वयो यस्याः सा तथाविधा सर्वथा-एकान्तेन तद्वाहिबोधविकलात्प्रस्तुताश्वादिग्राहिबोधविकलात् । कुत इत्याह-बोधमात्रात्-तथाविधान्यतरबोधभावलक्षणात् भवितुमर्हति इति भावनीयमेतत् ॥ अभ्युच्चयमाह न चैकेत्यादिना । न चैकजातीया अपि पदार्था न भिन्नहेतुजाः, किन्तु भिन्नहेतुजा अपि । कुत इत्याह-वहयरणिसूर्योपलादिभ्यो ३० १ 'न्यतरैके बोध०' इति क-पाठः। २ 'असत्येषां तन्त्रः' इति ग-पाठः। ३ विज्ञानादीनि भवतः' इति क-पाठः। ४ 'मदीयज्ञानगोचरेण' इति ङ-पाठः।।
SR No.008406
Book TitleAnekantajay patakakhyam Prakaranam Part 2
Original Sutra AuthorHaribhadrasuri
AuthorMunichandrasuri
PublisherOriental Research Institute Vadodra
Publication Year1947
Total Pages503
LanguageSanskrit, English
ClassificationBook_Devnagari & Philosophy
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy