________________
१८०
अनेकान्तजयपताकाख्यं प्रकरणम्
[षष्ठः (मूलम्) योग्यताऽपेक्षयेति चेत्, कथमुपलम्भाभावे न त्वेतदधिगतिः । प्रबन्धमाश्रित्य तथोपलब्ध्येति चेत्, किं सा न गोसन्निधानासन्नि५ धानोपलब्धानुपलब्धाश्वादिदर्शने इति सम्भवत्येव क्वचिदिति । एवं च यदि तत्राप्यश्वस्य प्रागसत्त्वमन्यतो देशादनागमनमन्याकारणत्वं च सन्तानस्य शक्यते निश्चेतुम् , भवतु तत्रापि हेतुफलभाव इति। एतदसमीक्ष्यैवोक्तम् , तदोपलब्धस्य प्रागसत्त्वात्, अन्यदेशा
दनागते, अन्याकारणत्वस्याप्यत एव निश्चयात् उपायाविशेषात् १० अन्यत्राप्येवमेवावगतेः । अन्यदाऽन्यतोऽपि भावादनिश्चय इति
(खो० व्या०) विवक्षितोपलम्भजननस्वभावानि, उपलम्भप्रत्ययान्तराणीति प्रक्रमः कथम् ? नैवेत्यर्थः । तदित्यादि । तस्य-स्वभावविशेषस्य दृश्यत्वेन हेतुना योग्यताऽपेक्षया । इति
चेत्, एतदाशङ्कयाह-कथमुपलम्भाभावे सति न त्वेतदधिगतिः-तदृश्य१५ त्वाधिगतिः ? । प्रबन्धेत्यादि । प्रबन्धमाश्रित्य-क्षणप्रवाहं तथोपलब्ध्या-सामान्येनापरोपलब्ध्या । इति चेत्, एतदाशङ्याह-किं सा-तथोपलब्धिः प्रबन्धापेक्षया सामान्येनेत्यर्थः, न गोः सन्निधानासन्निधानाभ्यां उपलब्धानुपलब्धश्चासौ अश्वादिश्चेति विग्रहः, तस्य दर्शने किं सा न इति सम्भवत्येव कचिदिति। एतदुक्तं भवति-गोसन्निधाने उपलब्धेऽश्वस्तदसन्निधानेनोपलभ्यते, न चासौ गोः कार्य २० प्राप्नोति च भवन्नीत्येति । एवं च कृत्वा एतदप्यसमीक्ष्यैवोक्तमिति सम्बन्धः। किं तदित्याह-यदीत्यादि । यदि तत्रापि-देशे अश्वस्य गोः कार्यतया परिकल्पितस्य प्राग्-उपलम्भसमयात् पूर्वमसत्त्वं शक्यते, निश्चेतुमिति सम्बन्धः, तथाऽन्यतो देशादनागमनं शक्यते निश्चेतुम् । एवमन्याकारणत्वं च सन्तानस्य अश्व
सम्बन्धिनः शक्यते निश्चेतुं यदि, भवतु तत्रापि हेतुफलभाव इति। एतद२५ प्यसमीक्ष्यैव अनालोच्यैव उक्तं न्यायविदा वार्तिके। कथमित्याह-तदोपलब्धस्य,प्रक्रमादश्वस्य,प्रागसत्वात् निरन्वयासदुत्पादेन अन्यदेशादनागते, अत एव हेतोः अन्याकारणत्वस्यापि, अत एव द्वयात् निश्चयात्, निश्चयश्च उपायाविशेषात् प्रत्यक्षानुपलम्भसाधनः कार्यकारणभाव इत्युपायस्तदविशेषात् । एतदेवाह-अन्यत्रापि-धूमानलादौ एवमेवावगतेः अन्याकारणत्वस्य । अन्यदे३० त्यादि । अन्यदा-अन्यस्मिन् कालेऽन्यतोऽपि भावादश्वस्य अनिश्चयः । इति
१ 'नन्वेतदधि०' इति क-पाठः। २ भवतु न तत्रापि' इति ग-पाठः ।