________________
अधिकारः]
स्वोपज्ञव्याख्यामुनिचन्द्रीयविवरणयुतम्
१७९
जननवभावत्वे कथं तदनुपलम्भः ? । अतत्वभावत्वे वा तत्प्रत्ययान्तरत्वं कथम् ?॥
स्थादेतत्-सहार्थेन तज्जननखभावानि, यथाऽऽह-"खभावविशे-५ षश्च यः स्वभाव: सत्खन्येषूपलम्भप्रत्ययेषु सन् प्रत्यक्ष एव भवति"। एतदप्यसारम् , इत्थमप्युभयस्य उपलब्धिलक्षणप्राप्तिशब्देनाभिधानात् तद्भावे चानुपलम्भायोगात् । न तदा तद्भाव एव, अपि तु विद्यमानः प्रत्यक्षो भवतीति चेत्, कथं तानि तदुपलम्भप्रत्ययान्तराणि ? । सह तेन तजननवभावत्वात् तथोच्यन्त इति चेत्, कथं न १० तदा तद्भावः, अभावे वा सह तेन तजननवभावानि ? । तदृश्यत्वेन
(खो० व्या०) मुपलम्भजननखभावत्वे सति उपलम्भभावापत्त्या कथं तदनुपलम्भः ?। नैवेत्यर्थः । अतत्वभावत्वे वा-उपलम्भाजननस्वभावत्वे वा तेषां तत्प्रत्ययान्तरत्वम्-उपलम्भप्रत्ययान्तरत्वं कथम् ? । नैवेत्यर्थः ॥
१५ स्यादेतदित्यादि । स्यादेतत्-अथैवं मन्यसे-सहार्थेन अवलम्बनाख्येन तजननवभावानि-उपलम्भजननस्वभावानि, यथाऽऽह न्यायवादी-खभावविशेषश्च-पदार्थविशेषश्च । किमुक्तं भवतीत्याह-यः खभाव:-पदार्थः सत्वन्येषु उपलम्भप्रत्ययेषु-चक्षुरादिषु सन्-विद्यमानः प्रत्यक्ष एव भवति । एतदाशक्याह-एतदप्यसारम् । कुत इत्याह-इत्थमपि-एवमपि उभयस्य-उपलम्भ- २० प्रत्ययान्तरस्वभावविशेषोभयस्य उपलब्धिलक्षणप्राप्तिशब्देन अभिधानात् । तद्भावे च-अधिकृतोभयभावे च किमित्याह-अनुपलम्भायोगात् । नेत्यादि । न तदा-तस्मिन् काले तद्भाव एव-स्वभावविशेषभाव एव, अपि तु-किन्तु विद्यमानः प्रत्यक्षो भवति । इति चेत्, एतदाशयाह-कथं तानि-अधिकृतप्रत्ययान्तराणि तदुपलम्भप्रत्ययान्तराणि? तद्भावेऽपि तज्जननविकलान्यपीति २५ भावः । सहेत्यादि । सह तेन-स्वभावविशेषेण तजननवभावत्वात्-विवक्षितोपलम्भजननस्वभावत्वात् तथोच्यन्ते-उपलम्भप्रत्ययान्तरत्वेनोच्यन्ते । इति चेत्, एतदाशङ्याह-कथं न तदा-तस्मिस्तत्साकल्यकाले तद्भाव:-स्वभावविशेषभावः अभाव वा स्वभावविशेषस्य सह तेन-स्वभावविशेषेण तज्जननस्वभावानि
१ 'भवति, तदप्यसारम्' इति ग-पाठः। २ 'एतद्भावे' इति ङ-पाठः। ३ 'जनने स्व.' इति कु-पाठः।